________________
जेयावि बहुस्सुते सिया, धम्मिय माहण भिक्खुए सिता ।
अभिनूमकडेहिं मुच्छिते, तिवं ते कम्महिं किच्चती ॥ ७ ॥ व्याख्या-ये चापि बहुश्रुताः धार्मिका ब्राह्मणाः भिक्षादाः ४ स्यु-भवेयुः, तेऽपि ' अभि' समन्तात् 'नूम 'त्ति कर्म माया वा, तत्कृतरसदनुष्ठानैर्मृञ्छितास्तीत्रमत्यर्थ कर्मभिरशुभैश्छिद्य कृत्यन्ते-पीडयन्ते जन्तव इति गाथार्थः ॥ ७॥
साम्प्रतं ज्ञानदर्शनचारित्रमन्तरेण नापरो मोक्षमार्गोऽस्तीति दर्शयन्नाहअह पास विवेगमुट्टिते, अवितिण्णे इह भासई धुवं । णाहिसि ? आरं कओ परं,वेहासे कम्मेहिं किच्चती॥ ___ व्याख्या-'अह पास 'त्ति + शिष्यं प्रति गुरुर्वक्ति यथा-भो शिष्य ! त्वं पश्य-कश्चित्तीर्थको 'विवेकं' परिग्रहपरित्यागं कृत्वा · उत्थितः' प्रव्रज्याविषये सावधानोऽभूत् , परं सम्यक्परिज्ञानाभावादवितीर्णः-संसारसमुद्रात्स्वयं न तीर्णस्तथापि भाषते-अस्मदीयादेवाचारान्मुक्तिरिति, ततश्चाहो !! शिष्य ! तन्मार्ग प्रपन्नस्त्वं 'आरं' इहलोकं 'परं' परलोकं कथं ज्ञास्यसि ? अपितु न ज्ञास्यसि, ततश्च इहलोकपरलोकभ्रष्टः सन् 'हास 'त्ति अन्तराले स्थित एव स्वकृतैरशुभैः कर्मभिः ' कृत्यते ' पीडयते इति गाथार्थः ॥ ८ ॥
पुनः शिष्य आह-ननु तीथिका अपि निष्परिग्रहास्ततश्च तत्कथं न मोक्षावाप्तिरित्येतदाशंक्याहx भिक्षाग्रहीतुमिच्छकाः । + 'अत्यनन्तर'मिति बृहद्वृत्तौ ।
Jain Education inte
For Privale & Personal use only
sw.jainelibrary.org