SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ व्याख्या-'डहरा' वालाः सन्तो म्रियन्ते, एके वृद्धाः सन्तो गर्भस्थाश्च, पश्यत यूयं, के ? मानवाः, मानवा एवो. पदेशार्दा इति मानवग्रहणं, एवमपायबाहुल्यात सर्वास्वप्यवस्थासु प्राणी प्राणाँस्त्यजति + । अत्रैव दृष्टान्तमाह-यथा श्येनः पक्षिविशेषो 'वर्तकं ' तित्तिरजातीयं ' हरेत् ' व्यापादयेत् , एवं प्राणिनः प्राणान्मृत्युरपहरेदिति गाथार्थः ॥२॥ तथा चमायाहि पियाहि लुप्पती, नो सुलभा सुगती विपेच्चउ।एयाइंभयाइं पहिया, आरंभा विरमेज सुबते ॥३॥ ___ व्याख्या-कश्चिद्वराकः प्राणी x मातापितादिस्वजनैर्विलुप्यते, कोऽर्थः ? तेषां ममतावशात्संसारे भ्राम्यते, ततश्च तन्मोपगतो धर्म नोद्यम करोति, धर्मेण विना च सुगतिरपि न सुलमा, तदेवमेतानि 'मयानि' भयकारणानि दर्गतिगमनादीनि 'पेहिय 'त्ति प्रेक्ष्य ' आरम्भात् ' सावद्यानुष्ठानरूपाद्विरमेत् , को भावः । एवं च ज्ञात्वा यो विवेकी सुव्रतो भवति स आरम्भानिवर्तते-आरम्भे न रमते इति गाथार्थः ॥ ३ ॥ अनिवृत्तस्य दोषमाहजमिणं जगती पुढो जगा, कम्मेहिं लुप्पंति पाणिणो। सयमेव कडेहिं गाहती, नो तस्स मुच्चेज पुट्ठवं॥४॥ व्याख्या-यद्यस्मादनिवृत्तानामिदं भवति-'जगति' पृथिव्यां 'पुढो 'त्ति पृथक्पृथग् यानि नरकादीनि स्थानानि सन्ति तेषु सावद्यानुष्ठानोपचितैः स्वकृतैः कर्मभिर्विलुप्यन्ते-नरकादियातनास्थानेषु भ्राम्यन्ते प्राणिनः स्वयमेव कृतैः कर्मभि + " तथाहि-त्रिपल्योपमायुष्कस्यापि पर्याप्यनन्तरमन्तर्मुहूर्तेनैव कस्यचिन्मृत्युरुपतिष्ठति । " इति बृहवृत्तौ । x “ यो मातापितृमोहेन धर्मोद्यमं न कुरुते स तैरेव " इति हर्षकुलगणिः । Join Education in For Private & Personal Use Only w.jainelibrary.org IA
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy