________________
सूयगडाङ्ग
सत्रं
दीपिका | न्वितम् ।
बुसिए य विगयगिद्धी, आया[णीयं]णं संरक्खए। चरियासणसिज्जासु, भत्तपाणेय अंतसो॥११॥ ____ व्याख्या-विविध-मनेकप्रकारं दशविधचक्रवालसामाचार्यां उ[षितो-व्युषितः । पुनः कीदृग्भवति साधुः ? विगतगृद्धिः-आहारादौ लोल्यतारहितः, + आदानीय-ज्ञानदर्शनचारित्र[रूपं रत्न]त्रयं सम्यग्रक्षति, यथा यथा रत्नत्रयस्य वृद्धिर्भवति तथा तथा कुर्यादित्यर्थः । कथं चारित्रं पालितं भवति ? तदर्शयति-' चरियासणसिज्जासु'त्ति, साधुना हि सति प्रयोजने युगमात्रदृष्टिना गन्तव्यं, तथा सुप्रत्युपेक्षिते सुप्रमार्जिते चासने उपवेष्टव्यं, तथा 'शय्यायां' वसतौ संस्तारके वा सुप्रत्युपेक्षितप्रमार्जिते स्थानादि विधेयं, तथा भक्ते पाने चान्तशः सम्यगुपयोगवता भाव्यमिति गाथार्थः ॥ ११ ॥
पुनश्चारित्रशुद्ध्यर्थमुत्तरगुणानधिकृत्याहएतेहिं तिहिं ठाणेहि, संजते सययं मुणी । उकसं जलणं णूम, मज्झत्थं च विर्गिचए ॥१२॥
व्याख्या-एतानि त्रीणि स्थानानि, तद्यथा-ईर्यासमितिरित्येकं स्थानं १, आसनं शय्येत्यनेनादानभाण्डमात्रनिक्षेपणासमितिरिति द्वितीयं स्थानं २, भक्तपानमित्यनेनैषणासमितिरुपात्ता, भक्तपानार्थं च संप्रविष्टस्य भाषणसम्भवाद्भाषासमितिराक्षिप्ता भवति, सति चाहारे उच्चारप्रश्रवणादीनां सद्भावात् परिष्ठापनासमितिरप्यायातेत्येतच्च तृतीय स्थानं ३, एतेषु त्रिषु
x समीचीनोऽयं प्रतिभाति पाठो वृत्ति-दीपिकाकारयोरभिप्रायेण । + " आदीयते-प्राप्यते मोक्षो येन तदादानीयं-ज्ञानादित्रयं, तत्सम्यग्रक्षयेत् ।" इति हर्षकुलगणिः ।
१ समयाNI ध्ययने
चतुर्थो देशके चारित्रशुद्धरुपदेशनम् ।
॥२६॥
॥२६॥
Jain Education Interational
For Privale & Personal use only
www.jainelibrary.org