________________
-
,
व्याख्या-औदारिकजन्तुग्रामस्य 'जोगं' व्यापार-अवस्थाविशेषमित्यर्थः, औदारिकशरीरिणो हि जन्तवः प्राक्तनावस्थाविशेषाद्गर्भकललार्बुदरूपाद्विपर्यासभूतं बालकुमारयौवनादिकमुदारं योगं परि-समन्ताद् गच्छन्ति, एतदुक्तं भवतिऔदारिकशरीरिणो हि मनुष्यादेर्वालकुमारादिकः कालादिकृतोऽवस्थाविशेषोऽन्यथाऽन्यथा वा भवत्प्रत्यक्षेण लक्ष्यते, न पुनर्यादृक्प्राक्तागेव सर्वदा, नायं नियमः । एवं (सर्वेषां) स्थावरजङ्गमानां जन्तूनां विपर्यासो द्रष्टव्यः । अपि च-सर्वेऽपि जन्तवो दुःखाकान्ताः सन्तोऽन्यथाऽवस्थामाजो लक्ष्यन्ते, यदिवा सर्वेऽपि जन्तवोऽकान्तदुःखा-अप्रियदुःखाः प्रियसुखाच, अतस्तान् सर्वान्न हिंस्यादिति गाथार्थः ॥९॥ किमर्थ सत्वान्न हिंस्यादित्याह
एयं खु नाणिणो सारं, जं न हिंसति किंचणं। अहिंसासमयं चेव, एतावंतं विजाणिया ॥१०॥ । व्याख्या-एतदेव 'खु'निश्चये, ज्ञानिनो-विशिष्टविवेकवतः 'सारं न्याय्यं, यत्कञ्चन प्राणिजातं स्थावरं जङ्गमं वा न हिनस्ति-न परितापयति, उपलक्षणं चैतत्तेन मृषाऽदचाब्रह्मपरिग्रहनिशाभोज्याद्यपि परिहरेत् इत्येतदेव ज्ञानिनः सारं यम कर्माश्रवेषु वर्चत इति । अपिच 'अहिंसासमयं चेवत्ति अहिंसासमयमेव एतावदेव विजानीयात् , एतावतैव कार्यसिद्धे, किम्बहुना ज्ञानाम्यासेन पलालप्रायेण?,+"किं ताए पढियाए ?,पयकोडीए पलालभूयाए। जस्थित्तियं न नायं, परस्स पीडा न कायव्वा ॥१॥” इति गाथार्थः ॥ १० ॥
उक्ता मूलगुणा अथोत्तरगुणानाह+ किं तया पठितया ? पदकोट्या पलालभूतया । यत्रैतावन्न ज्ञातं परस्य पीडा न कर्त्तव्या ॥१॥
Jain Education inte
For Privale & Personal use only
naw.jainelibrary.org