________________
'विवरीयपन्नसंभूय'मिति विपरीतप्रज्ञासम्भृत-विपर्यस्तबुद्धिग्रथितं 'अन्नेहिं बुईयाणुगं' अन्यैरविवेकिभिर्यदुक्तं तदनुगं-अविवेकिभिर्यद्भाषितं पुनस्तदनुसारेण प्रवर्तितं, एवंविधं विपर्यस्तबुद्धिरचितं पापण्डिलोकवादं निशामये-च्छृणुयादिति गाथार्थः ।।५।।
अथ तमेव लोकवादं दर्शयितुमाहअणंते नितिए लोए, सासए ण विणस्सती । अंतवं णितिए लोए, इति धीरोऽतिपासए ॥६॥
व्याख्या-अनन्तोऽयं लोकः, यो यादृगिहभवे स ताहगेव परभवेऽप्युत्पद्यते, पुरुषः पुरुष एव अङ्गना अङ्गनैव, अथवा 'अनन्तो'ऽपरिमितो-निरवधिक इति । तथा 'नित्यः' अप्रच्युतानुत्पन्नस्थिरैकस्वभावो लोकः । तथा शाश्वतो न कदाचिद्विनश्यति । तथा 'अंत' अन्तोऽस्यास्तीति अन्तवान् “सप्तद्वीपा वसुन्धरे"ति, इतो नाधिको न न्यूनः, स च तादृक्परि| माणो नित्यः, इत्येवं 'धीरः' कश्चित्साहसिको अन्यथा प्ररूपणाव्यासादिरिवातिपश्यति [इव ] अतिपश्यति । तदेवम्भूतमनेकभेदभिन्नं लोकवादं निशामयेदिति गाथार्थः ॥ ६ ॥ किञ्चअपरिमाणं वियाणाइ, इहमेगेसिमाहियं । सवत्थ सपरिमाणं, इति धीरोऽतिपासई ॥ ७॥
व्याख्या-यस्य वस्तुनः क्षेत्रतः कालतश्च 'परिमाणं' इयत्ता न विद्यते तदपरिमाणं, एके वादिनो वदन्ति-अस्माकं NI तीर्थकुदपरिमाणं जानाति, परं न सर्वज्ञः, इह जगति सर्वज्ञः कोऽपि नास्ति, एकेषां-सर्वज्ञापलववादिनामिदमाख्यातं-इदं
Jain Education
onal
For Privale & Personal use only
www.jainelibrary.org