________________
प्रकारे अकुशलाः संसारे दुःखिनो भवन्तीत्यत्र दृष्टान्तमाह-यथा मत्स्याः 'वैशालिकाः + विशालजात्युद्भवा:-बृहच्छरीरा - उदकस्याम्यागमे-समुद्रवेलायां सत्यांx, पुनर्वेलापगमे तस्मिन्नुदके शुष्के तस्मिन्नेव धुनीमुखे विलग्नाः अवसीदन्ति, आमिषगृध्नुभिर्दकै ककैश्च पक्षिभिः अन्यैश्च मांसवसार्थिभिमत्स्यबन्धादिभिर्जीवन्त एव विलुप्यमाना महान्तं दुःखसमुद्घातमनुभवन्तो अशरणा 'घातं' विनाशं यान्ति, त्राणाभावाद्विनाशमेव यान्तीति श्लोकद्वयार्थः ॥२-३ ॥ एवं तु समणा एगे, वट्टमाणसुहेसिणो । मच्छा वेसालिया चेव, घातमेसतिऽणंतसो ॥४॥ ___ व्याख्या-यथा मत्स्यास्तथा श्रमणाः शाक्यपाशुपतादयः स्त्रयूथ्या वा वर्तमानमेव सुखं आधाकर्मोपभोगजनितमेषितुं शीलं येषां ते वर्तमानसुखैषिणो वैशालिका मत्स्या इव 'घातं ' विनाशमेष्यन्त्यनन्तशोऽरघट्टघटीन्यायेन भूयोभूयः संसारोदरे निमज्जनोन्मजनं कुर्वाणा, न ते संसारपारगामिनो भविष्यन्तीत्यर्थः ॥ ४॥
साम्प्रतमपराज्ञानिमतोपदर्शनायाहइणमन्नं तु अन्नाणं, इहमेगोस आहियं । देवउत्ते अयं लोए, बंभउत्ते ति आवरे ॥५॥ व्याख्या-इदमन्यदज्ञान-मोहविजृम्भितं, इहास्मिल्लोके एकेषां, न सर्वेषां, आख्यात-मभिप्रायः । किमाख्यातमिति + “विशाल:-समुद्रस्तत्र भवा विशालाख्यजातिभवा वा विशाला एव वा वैशालिका-बृहच्छरीरा" इति हर्षकुलगणिः । x “ उदकस्य प्रभावेण नदीमुखमागताः" इति हर्षकुलगणिः ।
Jese
Jain Education in
For Privale & Personal use only
www.jainelibrary.org