SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ एवं तु समणा एगे, मिच्छद्दिट्ठी अणारिया। संसारपारकंखी ते, संसारं अणुपरियति ॥३२॥त्ति बोमि ॥ ___व्याख्या-यथाऽन्धः सच्छिद्रायां नावि समारूढः पारगमनाय नालं, तथा एके श्रमणाः शाक्यादयो मिथ्यादृष्टयः पिशिताशनानुमतिदानादनार्याः स्वदर्शनानुरागेण संसारपारकांक्षिणो-मोक्षाभिलाषुका अपि सन्तः संसारमेव-चतुर्गतिसंसरणरूपमेवानुपर्यटन्ति, भूयोभ्यस्तत्रैव जन्मजरामरणदौर्गत्यादिक्लेशमनुभवन्तोऽनन्तमपि कालमासते, न विवक्षितमोक्षसुखमाप्नुवन्तीति, ब्रवीमीति पूर्ववदिति गाथार्थः ॥ ३२॥ द्वितीयाले समयाख्याध्ययनस्य द्वितीयोद्देशकः समाप्तः । द्वितीयोदेशकानन्तरं तृतीयः समारभ्यते, द्वितीयोद्देशके स्वसमयप्ररूपणा कता, इहापि सैव क्रियते । तथाहिजं किंचि उ पूतिकडं, सड्डिमागंतुमीहितं । सहस्संतरियं भुंजे, दुपक्खं चेव सेवइ ॥१॥ , ___ व्याख्या-यत्किञ्चिदित्याहारजातं स्तोकमप्यास्तां प्रभूतं, तदपि पूतिकृत-माधाकर्मिकाहारसिक्थेनाप्युपस्पृष्टमास्तां तावदाधाकर्म, तदपि न स्वयं कृतं अपितु श्रद्धावता-ऽन्येन भक्तिमताऽपरानागन्तुकानुद्दिश्य ईहितं-चेष्टितं निष्पादितं, तच्च सहस्रान्तरितमपि यो भुञ्जीतासौ द्विपक्षं-गृहस्थपक्षं प्रवजितपक्षं चासेवते, किम्पुनर्य एते शाक्यादयः स्वयमेवाधाकर्मतया x निष्पाद्य स्वयमेव चोपभुञ्जते, ते च सुतरां द्विपक्षासेविनो भवन्तीत्यर्थः, अथवा ईर्यापथं साम्परायिकं च कर्म आदत्ते, x" स्वयमेव सकलमाहारजातं निष्पाद्य" इति बृहद्वृत्तौ । Jain Education in For Privale & Personal use only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy