________________
पचयो नान्यत्रेति दर्शयितुमाहपए तर आयाणा, जेहिं कीरइ पावगं । एवं भावविसोहीए, निवाणमभिगच्छति ॥ २७॥
व्याख्या-एतानि पूर्वोक्तानि त्रीण्येव आदानानि, यैर्दुष्टाध्यवसायसव्यपेक्षः पापकर्म क्रियते, तथा यत्र पुनः प्राणिपाते वीण्यमनि न प्रवर्तन्ते भावविशुद्धिश्च भवति, एतावता रागद्वेषौ विना यद्यपि मनसा कायेन वा प्राणिघातः स्यात्तथापि
भावविशुद्ध्या कर्मबन्धो न भवति, कर्मबन्धाभावाच्च निर्वाण मिति गाथार्थः ॥ २७ ।। VI भावविशुद्ध्या कर्मबन्धो न भवतीत्यत्रार्थे दृष्टान्तमाह
पत्तं पिया समारब्भ, आहारेज असंजए। भुंजमाणे य मेधावी, कम्मुणा णोवलिप्पई ॥ २८ ।। | व्याख्या-कश्चित्पिता पुत्रं ' समारभ्य ' व्यापाद्य कस्याश्चिदवस्थायां - अस्तद्विष्टः 'आहारेज 'त्ति आहारं करोति 'असंयतो गृहस्थः । मेधावी ' संयतोऽपि तमाहारं भुञ्जानः कर्मणा नोपलिप्यते, एतावता ' असंयतो' गृहस्थो भिक्षुर्वा शद्धाशयः पिशितास्यपि कर्मणा नोपलिप्यते, अत्र यथा पितुः पुत्रं व्यापादयतस्तत्रारक्तद्विष्टमनसः कर्मबन्धो न स्यात्तथाऽ. न्यस्याप्यरक्तद्विष्टान्तःकरणस्य प्राणिवधे सत्यपि न कर्मबन्ध इति गाथाथैः ॥ २८॥ साम्प्रतमेतदपणायाह-- मणसा जे पउस्संति, चित्तं तर्सि ण विजति । अणवज्जमतहं तेसिं, ण ते संवुडचारिणो ॥ २९॥
x“तथाविधायामापदि तदुद्धरणार्थ" इति बृहृवृत्तौ ।
Jain Educationin
For Private & Personal Use Only
diww.lainelibrary.org
LAI