________________
अथ चतुर्विधभिक्षुसमयः कर्मचयं न गच्छति तदधिकृत्याहअहावरं पुरक्खायं, किरियावादिदरिसणं । कम्मचिंतापणट्ठाणं, संसारस्स पवडणं ॥ २४ ॥ ___व्याख्या-अथाज्ञानवादमतानन्तरं अन्यत्पुरा-पूर्वमाख्यातं, किं तत् ? क्रियावादिदर्शनं, कर्मणि-ज्ञानावरणादिके 'चिन्ता' पर्यालोचनं, ततः 'प्रणष्टा' अपगता:-कर्मचिन्ताप्रणष्टाः 'संसारस्स पवड्डणं' संसारवर्द्धनं । ते ह्येवं
प्रतिपद्यमानाः संसारस्य वृद्धिमेव कुर्वन्ति, नोच्छेदमिति गाथार्थः ॥ २४ ॥ का यथा च ते कर्मचिन्तातो नष्टास्तथा दर्शयितुमाहजाणं काएणऽणाउट्टी, अबुहो जं च हिंसति । पुट्ठो वेदेइ परं, अवियत्तं खु सावजं ॥ २५ ॥
व्याख्या-यो हि जानन् प्राणिनो हिनस्ति कायेन अनाकुट्टी, किमुक्तं भवति ? यो हि कोपादेनिमित्तात्केवलं मनोव्यापारमात्रेण प्राणिनो व्यापादयति, न च कायेन प्राण्यवयवानां छेदनमेदनादिके व्यापारे वर्त्तते, न तस्यावचं, तस्य कर्मोपचयो न भवतीत्यर्थः, तथा अबुधो-जानानः कायव्यापारेण यं च हिनस्ति प्राणिनं तत्रापि मनोव्यापाराभावान्न कर्मोपचय इति । अत्र पुरा यदुक्तं-चतुर्विधं कर्म नोपचयति भिक्षुसमय इति, तत्र परिज्ञोपचितं अविज्ञोपचिताख्यं भेदद्वयं साक्षादुपातं, शेषं वीर्यापथस्वमान्तिकभेदद्वयं च शब्दादुपातं, तत्रेर्यापथं नाम पथि गच्छतो यथा कथञ्चिदनभिसन्धेर्यपाणिव्यापादनं भवति न तत्र कर्मबन्धः, [तथा 'स्वमान्तिक 'मिति स्वम एव लोकोच्या स्वमान्तः, स विद्यते यस्य तत्]
Jain Educationis
For Private & Personal Use Only