SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्गसूत्रं दीपिकान्वितम् । ॥ १६ ॥ काहिं 'ति आत्मीयैर्वितकैः- स्वमनोरुचिविकल्पैरेवमभ्युपगतवन्तो, यथाऽस्मदीय एव मार्गः श्रेयान् - अज्ञानमेव श्रेयः, अयमेव मार्ग : ' अंजू 'इति निर्दोषत्वात्स्पष्टः, परवादिभिस्तिरस्कर्तुं न शक्यते, ऋजुर्वा प्रगुण:- अकुटिल:, यथावस्थितार्थाभिधायित्वात् । किमित्येवंविधा ? इति हि यस्मात्ते ' दुर्मतयो ' विपर्यस्तमतय इति गाथार्थः ॥ २१ ॥ एवमज्ञानवादिनां ज्ञानवादी दोषदर्शनायाह एवं तक्काइ साहिंता, धम्माधम्मे अकोविया । दुक्खं ते नाइतुहंति, सउणी पंजरं जहा ॥ २२ ॥ व्याख्या—एवं त[र्कया]र्काभिः-स्वमनोरुचिकृत विक[ल्पनया ]ल्पै: ' साधयन्तः प्रतिपादयन्तो धर्मे क्षान्त्यादिके दशविधे अधर्मे च जीवोपमर्दापादिते पापे 'अकोविदाः ' अनिपुणाः 'दुःखं ' दुःखकारणभूतं कर्म त्रोटयितुं नालं, कर्म न त्रोटयन्तीति यथा पञ्जरस्थः ' शकुनिः ' पक्षी पञ्जरं त्रोटयितुं पञ्जरबन्धनादात्मानं मोचयितुं नालं, एवमसावप्यज्ञानवादी संसारपञ्जरादात्मानं मोचयितुं नालमिति गाथार्थः ॥ २२ ॥ अथ सामान्येनैकान्तवादिमतदूषणायाह सयं सयं पसंसंता, गरहंता परं वयं । जे उ तत्थ विउस्संति, संसारं ते विउस्सिया ॥ २३ ॥ व्याख्या - स्वकीयं स्वकीयं - आत्मीयात्मीयं दर्शनं प्रशंसन्तः परकीयां वाचं 'गर्हन्तो ' निदन्तः (ये तु) एकान्तवादिनो 'विद्वस्यन्ते ' विद्वांस इवाचरन्ति, ततः संसारं विविधमनेकप्रकारं उत्प्राबल्येन 'श्रिताः' सम्बद्धाः, तत्र वा संसारे ' उषिताः ' स्थिताः, संसारान्तर्वर्त्तिनः सर्वदा भवन्तीत्यर्थः ॥ २३ ॥ Jain Education International For Private & Personal Use Only १ समया ध्ययने द्वितीयो~ देश के अज्ञान वादिनां विपर्यस्त मतित्वम् । ॥ १६ ॥ www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy