SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ यगडाङ्गः सूत्रं दीपिकान्वितम् । द्देशके म्याख्या-ये पुनरेवं प्ररूपयन्ति-अज्ञानमेव श्रेयस्ते अज्ञानवादिनस्तेषामयमुपदेश:-यावान् [ यावान् ] ज्ञानाभ्युपगम-VI समयास्तावत्तावद्गुरुतरदोषसम्भवः, तथाहि-योऽवगच्छन् पादेन कस्यचिच्छिरः स्पृशति तस्य महानपराधो भवति, यस्त्वनाभोगेन ध्ययने स्पृशति तस्मै न कश्चिदपराध्यति, इत्येवं चाज्ञानमेव प्राधान्यभावमनुभवति, न तु ज्ञानं । अथ ये अज्ञानवादिनस्तेषां या द्वितीयो'वीमंसा' ज्ञातुमिच्छा सा ज्ञानविषये न प्रभवति, न निश्चयेन यच्छति-नावतरति । कोऽयमज्ञानवादिनां विमर्शः ? तथाहिकिमेतज्ज्ञानं सत्यं ? उतासत्यमिति ? किश्च-अज्ञानमेव श्रेयो, यथा यथा च ज्ञानातिशयस्त था तथा दोषाधिक्यं, सोऽय अज्ञानमेवम्भूतो विमर्शस्तेषां न बुध्य[ते], एवम्भूतस्य पर्यालोचनस्य ज्ञानरूपत्वादिति । तथा ते अज्ञानवादिनः आत्मनोऽपि 'पर' वादिनामप्रधानमज्ञानवादमुपदेष्टुं 'नालं' न समर्थाः, अज्ञानपक्षाश्रयणादिति । कुतः पुनस्ते स्वयमज्ञाः सन्तोऽन्येषां शिष्यत्वेनोपगतानां अज्ञानवादमुपदेष्टुं-समर्था भवेयुरिति गाथार्थः ॥ १७ ॥ तदेवं ते तपस्विनो अज्ञानिनः आत्मनः परेषां च शासने कर्तव्ये यथा न समर्थास्तथा दृष्टान्तेन दर्शयति कारित्वम्। वणे मूढे जहा जंतू, मूढे नेयाणुगामिए । दोवि एए अकोविया, तिव्वं सोयं नियच्छई ॥ १८ ॥ व्याख्या-यथा वने कश्चिन्मूढो जन्तु:-दिक्परिज्ञाने असमर्थः कमपि मृढमेवाग्रेसरं विधाय तमनुगच्छति ततस्तौ द्वावपि सम्यग्मार्गानभिज्ञौ तीवं श्रोतो-गहनं नियच्छत-निश्चयेन गच्छतः, अज्ञानावृतत्वात्तौ द्वावपि क्वापि गहनं पततः, एवमज्ञानवादिनः आत्मीयमेव शोभनं मागं मन्यमानाः परकीयं चाशोभनं जानन्तः स्वयं मूढाः परानपि मोहयन्तीति गाथार्थः॥१८॥ अस्मिन्नेवार्थे दृष्टान्तान्तरमाह ॥१५॥ विमर्श Jain Education Interational For Privale & Personal use only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy