________________
Jain Education In
सर्वस्मिन्नपि लोके ये प्राणिनो न ते किञ्चन जानन्ति यदपि गुरुपारम्पर्यागतं तेषां किञ्चन ज्ञानमस्ति तदपि छिन्नमूलत्वादवितथं न भवतीति गाथार्थः ॥ १४ ॥ एतदेव दृष्टान्तद्वारेण दर्शयितुमाह
मिलक्खू अमिलक्खुस्स, जहा वृत्ताणुभासए । ण हेउं से विजाणाइ, भासिअं तऽणुभास ॥ १५ ॥
व्याख्या -यथा कश्चिन्म्लेच्छः आर्यभाषां न वेत्ति, परमम्लेच्छस्य- आर्यस्य भाषितं तदनुभाषते, परं स म्लेच्छः आर्यस्य तदभिप्रायं न वेत्ति, यथाऽनेनानया विवक्षया भाषितं इति न सम्यग्जानाति, न च ' हेतुं ' निमित्तं निश्वयेनासौ म्लेच्छस्तद्भाषितस्य जानाति, केवलं परमार्थशून्यं तद्भाषितमेवानुभाषते इति गाथार्थ: ।। १५ ।।
एवं दृष्टान्तेन दार्शन्तिकं योजयति
| एवमन्नाणिया णाणं, वयंतावि सयं सयं । निच्छयत्थं न याणंति, मिलक्खू व अबोहिया ॥ १६ ॥
व्याख्या - एवमिति यथा म्लेच्छ: अम्लेच्छस्य परमार्थमजानानः केवलं तद्भाषितमनुभाषते, एवमज्ञानिकाः सम्यग्ज्ञानरहिताः श्रमणाः ब्राह्मणाः स्वीयं स्वीयं ज्ञानं प्रमाणत्वेन वदन्तोऽपि निश्चयार्थं न जानन्ति, निश्चयार्थमजानानाः म्लेच्छवदपरोक्तमनुभाषते 'अबोधिकाः बोधिरहिता [अतोऽज्ञानमेव श्रेय: X ] इति गाथार्थः ॥ १६ ॥ अथामीषां (दोष + ) दर्शनायाह - अन्नाणियाण वीमंसा, नाणेण विणियच्छति । अप्पणो य परं नालं, कत्तो अन्नाणुभासणं ? ॥१७॥ * बृहद्वृत्तौ । + एतचिन्हान्तर्गत: पाठोऽस्मत्परिवर्द्धितः ।
For Private & Personal Use Only
www.jainelibrary.org