SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्ग सूत्रं दीपिकान्वितम् । ॥ १३ ॥ अनर्थबहुलमेकान्तवादमशङ्कनीयत्वेन गृह्णन्ति अज्ञानावृताः, ततस्तेषु कर्मबन्धस्थानेषु सम्पर्यटन्त इति गाथार्थः ॥ ७ ॥ अथ पुनरपि प्राक्तनदृष्टान्तमधिकृत्याह अह तं पवेज्ज बज्झं, अहे बज्झस्स वा वए । मुच्चेज पयपासाओ, तं तु मंदे ण देह ॥ ८ ॥ व्याख्या - अथासौ मृगस्तत् ' बज्झं 'ति व[द्ध्यं ] द्वं - बन्धनाकारेण व्यवस्थितं वागुरादि बज्झमित्युच्यते, तदेवम्भूतं कूटपाशादिकं बन्धनं यद्यसौ मृग उपरि प्लवेत्-तद्बन्धनस्थानमधो विमुच्य उपरि गच्छेत् तस्य वा बध्यस्याधो गच्छेत्, तत एवं क्रियमाणेऽसौ मृगः पदे पाशः पदपाशो - वागुरादिबन्धनं, तस्मान्मुच्येत, आदिग्रहणाद्वघताडनमारणादिकाः क्रिया गृह्यन्ते, एवं सन्तं अनर्थपरिहरणोपायं ' मन्दो ' जडोऽज्ञानावृतो 'न देहयेत् ' न पश्यतीति गाथार्थः ॥ ८ ॥ कूटपाशादिकं चापश्यन् यामवस्थामवाप्रोति तां दर्शयितुमाह अहियप्पा अहिअप्पन्नाणे, विसमं तेणुवागए। स बद्धे पयपासेणं, तत्थ घातं नियच्छई ॥ ९ ॥ व्याख्या - स मृगो अहितात्मा अहितप्रज्ञानः सन् 'विपमान्तेन कूटपाशादियुक्तेन प्रदेशेन उपागत आत्मानं अनुतापयेत्, तत्र चासौ पतितो बद्धश्च तेन कुटादिना पदपाशादी ननर्थबहुलानवस्थानविशेषान् प्राप्तस्तत्र च बन्धने 'घातं ' विनाशं ' नियच्छति' प्राप्नोति ॥ ९ ॥ एवं दृष्टान्तं प्रदर्श्य दार्शन्तिकमज्ञानविपाकं दर्शयितुमाहएवं तु समणा एगे मिच्छद्दिट्ठी अणारिया । असंकियाई संकंति, संकियाई असंकिणो ॥ १० ॥ Jain Education International For Private & Personal Use Only १ समयाध्ययने द्वितीयो देश के अज्ञानवादिमतविपाकम् । ॥ १३ ॥ www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy