SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Jain Education International व्याख्या एवं ते मृगा अज्ञानावृता अनर्थ मनेकशः प्राप्नुवन्ति, एवमेव 'श्रमणाः' केचन पाषण्डविशेषाश्रिताः, एके, न सर्वे । किम्भूतास्ते ? मिथ्यादृष्टयोsनार्याः अज्ञानावृतत्वादसदनुष्ठायिन इति । अज्ञानित्वं च तेषां दर्शयति- 'अशङ्कितानि' अशङ्कनीयानि सुधर्मानुष्ठानादीनि शङ्कन्ते, कोऽर्थः १ सुधर्मानुष्ठाने अधर्मशङ्कामानयन्ति अधर्मे च धर्मबुद्धिं कुर्वन्तीति गाथार्थः ॥ १० ॥ पुनस्तेषां दर्शनिनां विपरीतमतित्वं दर्शयति धम्मपन्नवणा जा सा, तं तु संकंति मूढगा । आरंभाई ण संकति, अवियत्ता अकोविया ॥ ११ ॥ व्याख्या - धर्मस्य क्षान्त्यादिदशविधस्य या प्ररूपणा, तत्र शङ्कन्ते - असद्धर्मप्ररूपणेयमित्येवमध्यवसन्ति, ये पुनः पापोपादानभूताः समारम्भास्तान्न शङ्कन्ते, यतस्ते ' अव्यक्ताः ' मुग्धाः - विवेकविकलाः 'अकोविदाः ' अपण्डिताः - अगीतार्था इति गाथार्थः ॥ ११ ॥ तथाऽज्ञानावृता यन्नाप्नुवन्ति तदर्शनायाह — सवप्पगं विउक्कस्स, सवं णूमं विहूणिया । अप्पत्तियं अकम्मंसे, एयमङ्कं मिगे चुए ॥ १२ ॥ व्याख्या – ' सर्वात्मको' लोभस्तं विधूयेति सम्बन्धः । तथा विविध उत्कर्षो - गर्वः व्युत्कर्षो-मानः, तथा ' णूमं 'ति माया, तां विधूय तथा 'अप्पत्तियं 'ति क्रोधं, क्रोधविधूनने मोहनीयविधूननमावेदितं एतद्विधूनने अकर्मांशो भवति, अकर्माशश्च विशिष्टज्ञानाद्भवति, नाज्ञानात् । एनमर्थं कर्मा मावलक्षणं 'मृगो 'ज्ञानी' 'चुए 'त्ति त्यजेद्भश्येत् किमुक्तं भवति १ यो ज्ञानी स तु कषाय चतुष्कविधूननेन अकर्माशो भवति, परं यस्त्वज्ञानी स त्वेतस्मादर्थाद्भष्टः अज्ञानित्वादकर्माशो न For Private & Personal Use Only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy