________________
पाशस्थाः, अन्येऽपि ये कालेश्वरादिकारणिका एकान्तवादिनस्तेऽपि पार्श्वस्थाः पाशस्था वा द्रष्टव्या इति । ते कथम्भूताः ? 'विप्रगलिभताः ' घार्थ्यांपेताः परलोकसाधिकासु क्रियासु प्रवर्त्तमाना अपि सन्तो नात्मदुःखविमोक्षकाः, असम्यक्प्रवृत्तत्वान्नात्मानं दुःखात्संसाररूपाद्विमोचयन्तीति गाथार्थः ॥ ५ ॥ उक्ता नियतवादिनः, साम्प्रतमज्ञानिमतं दूषयितुं दृष्टान्तमाहजविणो मिगा जहा संता, परित्ताणेण वज्जिया । असंकियाई संकंती, संकियाई असंकिणो ॥ ६ ॥
व्याख्या - यथा ' जविनो' वेगवन्तः सन्तो मृगाः परित्राणेन वर्जिताः - सम्यग्विवेकविकला अशङ्कनीयानि कूटपाशादिरहितानि स्थानानि शङ्कन्ते निर्भयेषु स्थानेषु मयं कुर्वन्ति । यानि पुनः ' शङ्काऽर्हाणि ' शङ्कायोग्यानि वागुरादीनि, तत्र शङ्कामकुर्वाणास्तत्र तत्र निर्भयतया पर्यटन्ति, विवेकविकलत्वात् । अशङ्कनीयेषु शङ्कां कुर्वन्ति, शङ्कनीयेषु निर्भयाः पर्यटन्तीति गाथार्थः || ६ || पुनरपि तमेवार्थमाविष्करोति
परियाणियाणि संकंता, पासियाणि असंकिणो । अन्नाणभयसंविग्गा, संपलिंति तहिं तहिं ॥ ७ ॥
व्याख्या - परित्राणयुक्तानि निर्भयानि स्थानानि तेषु शङ्कमाना - मूढत्वाद्विपर्यस्तमतयस्त्रातर्यपि भयमुत्प्रेक्षमाणाः 'पाशितानि ' अनर्थोत्पादकानि तेषु अशङ्किनः, कोऽर्थः १ यानि निर्भयानि स्थानानि तेभ्यो विभ्यन्ति, यानि सभयानि स्थानानि तेम्यो न शङ्कन्त इत्यर्थः । ततश्च अज्ञानेन भयेन च 'संविग्ग'त्ति सम्यग्व्याप्ता - वशीकृताः सम्यग्विवेकविकलाः पाशवागुरादिके बन्धने सम्पर्यटन्ते, तथैतेऽपि नियतवादिनः परित्राणार्थेऽप्यनेकान्तवादे शङ्कां कुर्वाणाः युक्त्या अघटमानकं
३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org