SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्ग पण्डितम्मन्याः बाला उच्यन्ते । किमिति बालाः ? यतस्ते किश्चित्सुखदुःखादि जन्तूनां नियतिकृतं किश्चिदनियतिकृतं न सूत्र II मन्यन्ते, केवलं भवितव्यतावशान्नियतिकृतमेव मन्यन्ते, अत एव 'अजाणगा' अज्ञानिनो बुद्धिरहिताः, जैनास्तु किश्चिदीपिका-14 नियतिकृतं मन्यन्ते तथा किश्चिदनियतिकृतमपि पुरुषाकारकालेश्वरस्वभावकर्मादिकृतं मन्यन्ते, तत्र कथश्चित्सुखदुःखादिन्वितम् । पुरुषाकारसाध्यमप्याश्रीयते, यतः फलं क्रियातः सम्भवति, क्रिया च पुरुषाकारायत्ता वर्तते, तथा चोक्तं-" न दैवमिति सञ्चिन्त्य, त्यजेदुद्यममात्मनः। अनुद्यमेन कस्तैलं, तिलेभ्यः प्राप्तुमर्हति ॥१॥" किश्च-" उद्योगिनं पुरु. ॥१२॥ षसिंहमुपैति लक्ष्मी "रिति वचनात्पुरुषकारकृतं मन्यन्ते । आईतास्तु स्याद्वादप्ररूपिणः, न नियतिवादिवदेकान्तप्ररूपिणः "कालो सहावनियई, पुवकयं पुरिसकारणे पंच । समवाये सम्मत्तं, एगंते होइ मिच्छत्तं ॥१॥" इति वचनात् । ते तु नियतिवादिन एकान्तपक्षाश्रयणान्मिथ्यादृश एवेति गाथार्थः ॥ ४ ॥ अथैषामपायदर्शनायाहएवमेगे उ पासत्था, ते भुज्जो विप्पगभिया। एवं उवठिया संता, ण ते दुःखविमोक्खया ॥५॥ व्याख्या-एवमेके नियतिवादमाश्रिताः सर्वस्मिन्नपि वस्तुनि नियतानियते सति एके नियतमेवावश्यं भाव्येव, कालेश्वरादिनिराकरणेन निर्हेतुकतया नियतिवादमाश्रितास्ते पार्श्वस्थाः, युक्तिकदम्बकादहिस्तिष्ठन्तीति पार्श्वस्थाः, परलोकक्रियातो वा पार्श्वस्थाः, ते हि परलोकसाधिका क्रियां न मन्यन्ते, नियतपक्षाश्रयणाद्यद्भाव्यं तद्भविष्यतीति वचनात्तपश्वरणादिक्रियासु पराङ्मुखाः, यदि वा पाश इव पाशः-कर्मबन्धनं, तच्च युक्तिविकलनियतवादप्ररूपणं, तत्र स्थिताः १ कालः स्वभावो नियतिः, पूर्वकृतं पुरुषाकारः कारणानि पञ्च । समवाये सम्यक्त्वमेकान्ते भवति मिथ्यात्वम् ॥ १॥ १ समयाध्ययने द्वितीयोद्देशकेनियतिवाद निराकरणम् । बा ॥१२॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy