________________
मसातोदयलक्षणं, असैद्धिकं [ सुखं ] सांसारिकं, अथ चोभयमप्येतत्सुखं दुःखं च सकचन्दनाापभोगक्रियासिद्धी भवं सुखं सैद्धिक, तथा कशाताडनाङ्कनादिक्रियासिद्धौ भवं दुःखं, तथा असैद्धिकं सुखमान्तरमानन्दरूपं आकस्मिकमनवधारितबाह्यनिमित्तं, एवं दुःखमपि ज्वरशिरोऽतिशूलादिरूपमङ्गोत्थमसैद्धिकमिति गाथार्थः ॥२॥
यदि कस्यापि कृतं सुखदुःखादि न स्यात्तर्हि असौ सुखी असौ दुःखी इत्यादि वैचित्र्यं कुतः १ तदेव कथयति- । न सयं कडं न अन्नेहि, वेदयंति पुढो जिया। संगइयं तं तहा तेसिं, इहमेगेसिमाहियं ॥३॥ ___ व्याख्या-न स्वयं पुरुषकारेण कृतं दुःखं नाप्यन्येन केनचित्कालादिना कृतं वेदयन्त्यनुभवन्ति, पृथग् 'जीवाः। प्राणिन इति, तर्हि कुतस्तेषां सुखदुःखाद्युदयमायाति ! अत्र नियतिवादी स्वाभिप्रायं प्रकाशयति-संगइयंति, सङ्गतिनियतिस्तस्यां भवं साङ्गतिकं, न पुरुषकारादिकृतं सुखदुःखादि, केवलं नियतिकृतं साङ्गतिकमित्युच्यते । इह 'एकेषां' वादिना सुखदुःखानुभववादे 'एवमाख्यातं ' एषा प्ररूपणेत्यर्थः, उक्तं च-"प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा। भूतानां महति कृतेऽपि हि प्रयत्ने । नाभाव्यं भवति न भाविनोऽस्ति नाशः॥१॥" इत्येवं श्लोकद्वयेन नियतिवादमतमपन्यस्यास्योत्तरदानाय आहएवमेयाणि जंपंता, बाला पंडियमाणिणो। णिययाणिययं संतं, अजाणंता अबुद्धिया ॥ ४ ॥
व्याख्या-एवं ते नियतिवादिनो नियतिवादमाश्रित्य जल्पन्तो 'बाला' अज्ञानिनः पण्डितमानिनः, आत्मानमेव
Jain Education Intel
For Privale & Personal use only
w
.jainelibrary.org