________________
Jain Education In
मनुष्येष्विष्टवियोगानिष्टसंप्रयोग-शोकाक्रन्दनादीनि, देवेषु चाभियेोग्येर्ष्याकिल्विषिकत्व - च्यवनादीन्यनेकप्रकाराणि दुःखानि, एवम्भूता वादिन: पौनःपुन्येन समनुभवन्तीति गाथार्थः ॥ २६ ॥
उच्चावयाणि गच्छंता, गब्भमेसंतिऽणंतसो । नायपुत्ते महावीरे, एवमाहु जिणोत्तमे तिमि ॥२७॥
व्याख्या - उच्चावचानीति अधमोत्तमानि नानाप्रकाराणि वा [ सं] स्थानानि ' गच्छंता' इति ' गच्छन्तो ' भ्रमन्तो गर्भाद्गर्भमेष्यन्ति - यास्यन्त्यनन्तशो - निर्विच्छेदमिति, ब्रवीमीति सुधर्मस्वामी जम्बूस्वामिनं प्रत्याह- ' ज्ञातपुत्रो' भगवान् श्रीमहावीर एवमुक्तवान्, तत्सकाशे मयाऽपि श्रुतं तथाऽहमपि ब्रवीमि न स्वमनीषिकयेति गाथार्थः ॥ २७ ॥ इति समयाख्ये प्रथमाध्ययने प्रथमोद्देशकः समाप्तः ।
उक्तः प्रथमोद्देशः साम्प्रतं द्वितीयोऽभिधीयते, तस्य चायमभिसम्बन्धः - इह प्रथमोदेश के स्वसमय-परसमयप्ररूपणा कृता, द्वितीयोदेशकेऽपि सैवाभिधीयते, यदि वाऽनन्तरोदेश के भूतवाद्यादिमतप्रदर्शनेन तन्निराकरणं कृतं, इह तु नियतिवाद्यादिमिध्यादृष्टिमतान्युपदर्श्य निशक्रियन्ते । अथ द्वितीयोदेश कस्यादिसूत्र
आघायं पुण एगेसिं, उववन्ना पुढो जिया । वेदयंति सुहं दुक्खं, अदुवा लुप्पति ठाणओ ॥ १ ॥
व्याख्या- तैर्नियतिवादिभिः पुनरिदमाख्यातं - एतत्प्ररूपितं - उपपन्नाः 'पृथक् पृथग् नारकादिभवेषु शरीरेषु चेत्यनेना| स्माऽऽद्वैतवादनिरासोऽवसेयः । उपपन्नाः के ? ' जीवाः ' प्राणिनः सुखदुःखभोगिनः, तथा ते जीवाः पृथक् पृथक् प्रत्येक देह
For Private & Personal Use Only
www.jainelibrary.org