SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ व्याख्या-अगारमावसन्तो गृहस्थाः, आरण्या वा तापसादयः, प्रवजिताः-शाक्यादयः, एवं प्रतिपादयन्ति-यथेदमस्मदीयं दर्शनं ये समाश्रितास्ते सर्वदुःखेभ्यो विमुच्यन्ते, तथाहि-पश्चभूत-तज्जीवतच्छरीवादिनामयमाशयो-यथेदमस्मदीयं दर्शनं ये समाश्रितास्ते गृहस्थाः सन्तः सर्वेभ्यः शिरस्तुण्डमुण्डन-दण्डाजिनजटाकाषायचीवरधारण-केशोल्लुश्चन-नाग्न्यतपश्चरण-कायक्लेशरूपेभ्यो दुःखेभ्यो मुच्यन्ते, तथा चाहु:-" तपांसि यातनाश्चित्राः, संयमो भोगवश्चना । अग्निहोत्रादिकं कर्म, बालक्रीडैव लक्ष्यते ॥१॥" इति । एवं साख्या अपि वदन्ति-येऽस्मदीयं दर्शनमकर्त्तत्वात्माद्वैतपश्चस्कन्धादिकप्रतिपादकमापनाः प्रवजितास्ते सर्वेभ्यो जन्मजरामरणगर्भपरम्परानेकशारीरमानसातितीव्रतरासातोदयरूपेभ्यो दुःखेभ्यो विमुच्यन्ते सकलद्वन्द्वविनिर्मोक्षं मोक्षमास्कन्दन्तीति ॥ १९ ॥ अथ तेषामेवाफलवादित्वमाविष्कुर्वन्नाहतेणावि संधि णच्चाणं, ण ते धम्मविऊ जणा । जे ते उ वाइणो एवं, न ते ओहंतराहिया ॥२०॥ व्याख्या-ते पञ्चभूतादिप्ररूपका वादिनः 'सन्धि' भावसन्धिर्ज्ञानावरणादिकर्मविवररूपस्तं अज्ञात्वा ते प्रवृत्ताः [ यथा आत्मकर्मणोः सन्धिर्द्विधा (द्रव्य )भावलक्षणा भवतिx] तथा अबुद्धैव ते वराकाः दुःखविमोक्षार्थमभ्युद्यता इति भावः । [यतश्चैवं] अत एव [ते] सम्यग्धर्मपरिच्छेदे कर्तव्ये न [विद्वांसो] निपुणाः [जना:-] पञ्चभूतास्तित्वादिवादिनो लोका इति IY 'जे ते उ वाइणो एवं' ये च ते एवमनन्तरोक्तप्रकारवादिनो नास्तिकादयो भवौष+स्तत्तरणशीलास्ते न भवन्तीत्यर्थः ॥२०॥ x वृहद्वृत्तौ + संसारः। Jain Education intamational For Privale & Personal use only ____www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy