________________
सूयगडाङ्ग सूत्रं
दीपिकान्वितम् ।
॥ ९॥
इति । एवमप्यात्मानं बौद्धा नाभ्युपगतवन्तः ॥ १७ ॥ तथा परे बौद्धविशेषाश्चतुर्द्धातुकमिदं जगदाद्दुरित्येतद्दर्शयितुमाहपुढवी आऊ तेऊ य, तहा बाऊ य एगओ । चत्तारि धाउणो रूवं, एवमाहंसु (जाणया) आवरे ॥१८॥
व्याख्या– पृथिवीधातुरापश्च धातुस्तथा तेजो धातुर्वायुश्च धातुः, एते चत्वारोऽपि पदार्था जगतो धारकत्वात्पोषकत्वाच्च धातवोऽभिधीयन्ते 'एगओ'ति चत्वारोऽप्येते धातवो होकाकारपरिणताः सन्तो जीवव्यपदेशमनुवते, तथा चोचुःचतुर्द्धातुकमिदं शरीरं, न तद्व्यतिरिक्त आत्मा अस्तीत्येवमाहंसु आवरे'ति अपरे बौद्धविशेषा एवमभिहितवन्त इति [ क्वचिद् ] ' जाणगा ' इति [ पाठः, तत्राप्ययमर्थो - X ] ' जानका: ' ज्ञानिनः किल वयमित्यभिमानाग्निदग्धाः सन्त एवमाहुरिति । अफलवादित्वं चैतेषां क्रियाक्षण एवं कर्त्तुः सर्वात्मना नष्टत्वात् यतस्तेषां हि मते यत्सत्तत्क्षणिकं, क्षणिकवादिनस्ते, अतः क्रियाक्षण एव कर्त्तुरभावः, क्षणिकत्वात् प्रथमक्षण एव कर्त्ता विनष्टः, पुण्यपापफलं को सुनक्ति १ अफलवादित्वा क्रियाफलेन सम्बन्धाभावात्, अथवा सर्वेऽप्यफलवादिन एव द्रष्टव्याः कैश्चिदात्मनो नित्यस्य अविकारिणो अभ्युपगतत्वात्, कैश्विच्वात्मन एवानभ्युपगमादिति गाथार्थः ॥ १८ ॥
अथ सूत्रकारः स्वस्वदर्शनाभ्युपगमेन मुक्तिरिति दर्शयितुमाह
आगारमावसंता वि, आरन्ना वावि पवया । इमं दरिसणमावन्ना, सबदुक्खा विमुचई ॥ १९ ॥
x बृहद्वृत्तौ ।
Jain Education national
For Private & Personal Use Only
१ समया
ध्ययने
प्रथमो
देश के
चतुर्द्धातु
कमिदं
शरीरमिति बौद्धमतम् ।
॥ ९ ॥
www.jainelibrary.org