________________
व्यतिरिक्तः कश्चिदात्माख्यः पदार्थोऽध्यक्षेणाध्यवसीयते, तदन्यमिचारिलिङ्गग्रहणाभावानाप्यनुमानेन, न च प्रत्यक्षानुमानव्यतिरिक्तमर्थाविसंवादि प्रमाणान्तरमस्तीत्येवं बाला इव वाला:-यथावस्थितार्थापरिज्ञानात् , इत्येवं बौद्धाःप्रतिपादयन्ति, तथा च स्कन्धाः क्षणयोगिनः-क्षणमात्रावस्थायिन इत्यर्थः। पूर्ववादिभ्योऽसावन्यथा प्ररूपयति, तमेव श्लोक पश्चार्द्धन दर्शयति-' अन्नो अणन्नो' इत्यादि, ते हि बौद्धा यथाऽऽत्मषष्ठवादिनः साङ्ख्यादयो भूतव्यतिरिक्तमात्मानम| भ्युपगतवन्तः, यथा च चार्वाका: भूताब्यतिरिक्तं चैतन्याख्यमात्मानमिष्टवन्तः, तथा बौद्धा नैवाहु-न चोक्तवन्तः । तथा 'हेउयं च अहेउयं तथा हेतुभ्यो जातो हेतुक:-कायाकारपरिणतभृतनिष्पादित इति, तथा अहेतुकोऽनाद्यपर्यवसितत्वानित्य यदुक्तं-' यत्सत्तत्क्षणिकं यथा जलधरः सन्तश्च भावा इमे, सचाशक्तिरिहार्थकर्मणि मितेः सिद्धेषु सिद्धा च सा । नाप्येकैवविधाऽन्यदाऽपि परकृन्नैव क्रिया वा भवेद् , द्वेधाऽपि क्षणभङ्गसङ्गतिरत : साध्ये च विश्राम्यति ॥१॥' इति विज्ञानम्"। (षड्द०)
४-"संज्ञास्कन्धः-संज्ञानिमित्तोद्ग्रहणात्मकः प्रत्ययः।" (बृहदवृत्तिः), " संज्ञेति संज्ञा-नाम, कोऽर्थः ? सर्वमिदं सांसारिक सचेतनाचेतनस्वरूपव्यवहरणं संज्ञामात्रं-नाममात्रं, नात्र कलत्रपुत्रमित्रभ्रात्रादिसम्बन्धो घटपटादिपदार्थसार्थो वा पारमार्थिकः । तथा च तत्सूत्र-तानीमानि भिक्षवः ! संज्ञामात्र-व्यवहारमात्रं कल्पनामात्रं संवृतिमात्रमतीतोऽध्वाऽनागतोऽध्वा सहेतुको विनाशः आकाशं पुद्गला' इति । " (षड्दर्शन०)।
५-"संस्कारस्कन्धः पुण्यापुण्यधर्मसमुदाय इति ।" (बृहद्वृत्तिः) । " संस्कार इति, इहपरभवविषयसन्तानपदार्थनिरीक्षणIMI प्रबुद्धपूर्वभावानुरूपसंस्कारस्य प्रमातुः स एवायं देवदत्तः सैवेयं दीपकलिकेत्याद्याकारेण ज्ञानोत्पत्तिः संस्कारः ।" (षड्दर्शन)।
Jain Education
a
l
For Privale & Personal use only
|www.jainelibrary.org
II