________________
दुहओ ते ण विणस्संति, णेय उप्पज्जए असं । सबे वि सबया भावा, णियतीभावमागया ॥ १६ ॥ ____ व्याख्या-विनाशो हि द्विधा, सहेतुको निर्हेतुकच, तत्र[ते ] पृथिव्यादयः पदार्था आत्मषष्ठा 'उभयतः' सहेतुकनिर्हेतुकविनाशद्वयेनापि न विनश्यन्ति, यथा बौद्धानां स्वत एव निर्हेतुको विनाशः सम्पद्यते पदार्थानां, वैशेषिकाणां च लकुटादिकारणसान्निध्ये विनाशः सहेतुका, एतेषां च मते उभयरूपेणापि विनाशेन लोकात्मनोन विनाश इति भावार्थः । यदि वा 'दुहओ'त्ति द्विरूपादात्मनः स्वभावाचेतनाचेतनारूपान्न विनश्यन्तीति, तथाहि-पृथिव्यादयो मावाः स्वरूपापरित्यागेन नित्यानि, पृथिव्यप्तेजोवाय्वाकाशानि न स्वरूपपरित्याग कदाचिदपि कुर्वन्ति, अत एव नित्यानि । आत्माऽपि नित्य एव, अकृतकत्वादिति । तथा चोक्तं-" +नैनं छिन्दन्ति शस्त्राणि, नैनं दहति पावकः। न चैनं क्लेदय. न्त्यापो, न शोषयति मारुतः॥१॥अच्छेद्योऽयमभेद्योऽय-मविकारी स उच्यते। नित्यः सततगः स्थाणुरचलोऽयं सनातनः ॥२॥" 'णे य उप्पज्जए असं' एवं च स्वभावेन वस्तु नासदुत्पद्यते, असतश्चेत्पदार्थस्यो त्पत्तिः स्यात्तर्हि गगनारविन्दशशविषाणादयोऽपि मावा उत्पधेरन् , न चोत्पद्यन्ते, तर्हि ज्ञायते-असतः पदार्थस्योत्पत्तिरेव नास्ति, यथा मृत्पिण्डादेव घटोत्पत्तिः, मृत्ण्डेि घटसद्भावात् , यदि असदुत्पत्तिस्तीन्यस्मादपि भावात् घटोत्पत्तिम॒गयतांश, परं न कोऽपि सकर्णः पुमान् असदुत्पत्तिं प्ररूपयति, पटोत्पत्तौ तन्तव एव कारण, परं नहि पटोत्पत्तौ मृत्पिण्डगवेषणं कुर्यात | घटोत्पत्तौ च तन्तूनां गवेषणं, अतः सति कारणे कार्यमुत्पद्यते, एवं च कृत्वा सर्व नासत्पद्यते, असति पदार्थे कारकव्यापारा
+ जीवं 1 x शाश्वतः । * विचारयन्तु ।
Jain Education in
For Private
Personal Use Only
Saw.jainelibrary.org