SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ [प्रकृतेविरहो मोक्षः, तन्नाशे स स्वरूपतः॥१॥"+]एवमनेन प्रकारेणात्मा अकारक इति साङ्ख्या , एवं प्रगल्भिता: प्रगल्मवन्तो धार्यवन्तः सन्तो-भूयो भूयस्तत्र तत्र प्रतिपादयन्ति, यथा-प्रकृतिः करोति पुरुष उपभुङ्क्ते, तथा बुद्ध्यध्यवसितमर्थ पुरुषश्चेतयते, इत्याद्यकारकवादिमतमिति ॥ १३ ॥ साम्प्रतं तज्जीवतच्छरीरकारकवादिनो मतं निराचिकीर्षुराहजे ते उ वाइणो एवं,लोए तेसिं कुतो सिया ?। तमाओ ते तमंजंति, मंदा आरंभनिस्सिया ॥ १४ ॥ ___व्याख्या-तत्र ये तावच्छरीराव्यतिरिक्तात्मवादिनः 'एवं' पूर्वोक्तया नीत्या भूताव्यतिरिक्तमात्मानमभ्युपगतवन्तः, अत्र कोऽर्थः ? भूतान्येव कायाकारपरिणतानि धावनवल्गनादिक्रियां कुर्वन्ति, न पुनस्तव्यतिरिक्तः कश्चिदात्माख्यः पदार्थों ऽस्ति, एवं (!) भूताव्यतिरिक्तात्मवादिन एवं प्रज्ञापयन्ति । अथ ते निराक्रियन्ते-यदि भूताव्यतिरिक्तः कश्चिदात्माख्यः पदार्थो नास्ति तात्माभावे योऽयं लोकश्चातुर्गतिकसंसारो भवाद्भवान्तरगतिलक्षणः प्राक्प्रसाधितः सुभगदुर्भगसुरूपकुरूपेश्वरदारिद्यादिगत्या जगद्वैचित्र्यलक्षणश्च, स एवम्भूतो लोकस्तेषां कुतो भवेत् ? कया युक्त्या घटेत ? आत्मनोऽनम्युपगमान्न कथञ्चिदित्यर्थः, अतस्ते नास्तिकाः परलोकयायिजीवानम्युपगमेन पुण्यपापयोश्वाभावमाश्रित्य यत्किञ्चनकारिणोऽज्ञानरूपात्तमसः सकाशादन्यचमो यान्ति भूयोऽपि ज्ञानावरणादिरूपं महत्तरं तमः सश्चिन्वन्ति, यदि वा तमसः परं तमो यान्तिसप्तमनरकपृथिव्यां रौरव-महारौरव-काल-महाकाला-प्रतिष्ठानाख्यं नरकावासं यान्तीत्यर्थः। किमिति ? यतस्ते 'मन्दा' जडा-मूर्खाः सत्यपि सर्वजगत्प्रसिद्धे युक्त्युपपन्ने आत्मनि मिथ्याभिनिवेशात्तदभावमादृत्य x प्राण्युपमर्दकारिणि विवेकिजन + भाण्डारकरप्रतौ । - परलोकाभावं । Jain Education Interational For Privale & Personal use only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy