SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्ग सूत्रं दीपिकान्वितम् । ॥ ६॥ मुत्पादयति । अत्राह परे:- ननु यदि भूतव्यतिरिक्तः कश्चिदात्मा न विद्यते न च पुण्यापुण्यफलं न च परलोकस्तर्हि कथं जगद्वैचित्र्यं घटते १, तथाहि - कश्विदीश्वरः परो दरिद्रः एक सुखी एको दुःखी इत्येवंप्रकारा जगद्विचित्रता कुतो जाता ? इत्यत्रोच्यते - स्वभावात्, तथाहि - कुत्रचिच्छिलाशकले प्रतिमारूपं निष्पाद्यते तच्च कुङ्कुमागरुचन्दनादिविलेपनानुभोगमनुभवति, स्रग्धूपाद्यामोदं च गृह्णाति, अन्यस्मिंस्तु पाषाणखण्डे पादक्षालनादि क्रियते, न च तयोः पाषाणखण्डयोः शुभाशुभे स्तः, यदुदयात्तौ - पाषाणखण्डौ शुभाशुभावस्थाविशेषमनुभवतः, इत्येवं स्वभावाज्जगद्वैचित्र्यं, यत-" कण्टकस्य च तीक्ष्णस्वं मयूरस्य विचित्रता । वर्णाश्च ताम्रचूडानां स्वभावेन भवन्ति हि ॥ १ ॥ " इति तञ्जीवतच्छरीरवादिमतं गतम् || १२ || अथ अकर्तृवादिमतनिरूपणायाह कुवं च कारयं चैव, सबं कुवं न विजई । एवं अकारओ अप्पा, एवं ते उ पगब्भिया ॥ १३ ॥ व्याख्याते अक[व] वादिन एवं कथयन्ति - आत्मा अमूर्तो नित्यः सर्व व्यापी चेति, अत एव न स्वयं क्रिया करोति न चान्यान् कारयति, एतावता आत्मा स्वयं क्रियायां न प्रवर्त्तते नाप्यन्यं प्रवर्त्तयति, यद्यपि स्थितिक्रियां 'मुद्राप्रतिबिम्बोदय' न्यायेन [जपास्फटिकन्यायेन चै ] भुजिक्रियां करोति तथापि समस्तक्रियाकर्तृत्वं तस्य नास्तीत्येतद्दर्शयति'सव्वं कुव्वं ण विज्जई' सर्वां परिस्पन्दादिकां देशादेशान्तरप्राप्तिलक्षणां क्रियां कुर्वन्नात्मा न विद्यते सर्वव्यापित्वेनामूर्त्तत्वेनाकाशस्येवात्मनो निष्क्रियत्वमिति । तथा चोक्तं-" अकर्त्ता निर्गुणो भोक्ता, आत्मा साङ्ख्यस्य दर्शने । १ स्वभाववादी । २ मुद्रित बृहद्वृत्तौ । Jain Education International For Private & Personal Use Only १ समयाध्ययने | अकर्तृत्व वादनिरू पणम् । 11 & 10 www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy