________________
Jain Education Inter
तेषु विनष्टेषु आत्माsपि विनश्यति, न परलोकयायी स्वकर्मफलभोक्ता आत्माख्यः पदार्थोऽस्तीति भावः ॥ ११ ॥ एवं चात्मनोऽभावे पुण्यपापयोरप्यभाव इति दर्शयितुमाह
नत्थि पुन्ने व पावे वा, नत्थि लोए इओ परे । सरीरस्स विणासेणं, विणासो होइ देहिणो ॥१२॥
व्याख्या - आत्मनोऽभावे पुण्यपापयोरप्यभावः तत्र पुण्यमभ्युदयप्राप्तिलक्षणं तद्विपरीतं पापं तत आत्मनोऽभावे पुण्यपापयोरप्यभावः, धर्मिणोऽभावे धर्मस्याप्यभाव इति, आत्मनोऽभावेऽस्माल्लोकात्परोऽन्यो लोकस्तस्याप्यभाव एवेति । ततः किमुक्तं भवति ? आत्मनोऽभावे पुण्यपापयोरप्यभावस्ततश्च परलोकस्याप्यभाव एवेति तत्रं, पुण्यपापानुसारिणी शुभाशुभगतिः प्राणिनामुदयमायाति परलोके, तत एकस्यात्मनोऽभावे पुण्यपापपरलोकानां च अभाव एवेति । अत्रार्थे बहवो दृष्टान्ताः सन्ति, तथाहि - यथा जलबुदुदो जलातिरेकेण नापर: कश्विद्विद्यते, जलापगमे बुदबुदानामप्यपगमः, तथा भूतव्यतिरेकेण नापरः कश्चिद्विद्यते आत्मेति तथा यथा कदलीस्तम्भस्य बहिस्त्वगपनयने क्रियमाणे त्वमात्रमेव सर्वे, नान्तः कश्चित्सारोऽस्ति, एवं भूतसमुदायविचटने तावन्मात्रं विहाय नान्तः सारभूतः कश्चिदात्माख्यः पदार्थ उपलभ्यते, पुनर्यथाssदर्शे स्वच्छत्वात्प्रतिविम्बितो बहिस्थोऽप्यर्थोऽन्तर्गतो लक्ष्यते, न तथाssस्मेति । यथा च ग्रीष्मे भौमेनोष्मणा परिस्पन्दमाना मरीचयो जलाकारं विज्ञानमुत्पादयन्ति एवमन्येऽपि गन्धर्वनगरादयः स्वस्वरूपेणातथाभूता अपि तथा प्रतिभासन्ते, तथाऽऽत्माऽपि भूतसमुदायस्य कायाकारपरिणतौ सत्यां पृथगसन्नेव तथा भ्रान्ति
For Private & Personal Use Only
w.jainelibrary.org