SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्ग सूत्रं दीपिका न्वितम् । ॥५॥ " , पत्तेयं कसिणे आया, जे बाला जे य पंडिया । संति पेच्चा ण तेसिंति, नत्थि सत्ताववाइया ॥११॥ व्याख्या- तज्ञ्जीवतच्छरीरवादी एवं ब्रूते ' पत्तेयं कसिणे आय ' त्ति, ' प्रत्येकं शरीरं प्रति प्रत्येकं आत्मानः 'कृत्स्नाः सर्वेऽपि, शरीरं प्रति पृथगेवात्मा इति भावः, न पुनः सर्वगत एक एवात्मा ' जे बाला जे य पंडिया ' ये ' बाला ' मूर्खा ये च ' पण्डिताः ' सदसद्विवेकज्ञास्ते सर्वे पृथग् व्यवस्थिताः, यद्येक एवात्मा सर्वव्यापकः स्यात्तsurat बालः पण्डितश्वासौ. नायं लोके व्यवहारः परिस्फुटः स्यात्, दृश्यते चायं प्रसिद्धो व्यवहारः आबालगोपालादिषु अयं बालः अयं पण्डित इत्यादि, तर्हि ज्ञायते - शरीरं शरीरं प्रति पृथगेवात्मा, नहि सर्वजगद्व्यापी एक एवेति एवमात्मनो बहुत्वमाहतानामपीष्टमेव इत्याशंक्याह - जैनानां मते तन्मते च न कोऽपि भेदः स्यात्, परमयं विशेषः - आत्मनां बहुत्वमस्ति परं यावच्छरीरं तावदेवात्मा, शरीरविनाशे आत्मनोऽपि विनाशः, शरीराद्धिन्नो गत्यन्तरगामी आत्मा नास्त्येव, तदेव दर्शयति- ' संति पेचा ण तेसिं' ति, परलोकानुयायी शरीराद्भिन्नः स्वकर्मफलभोक्ता न कश्चिदात्मारव्यः पदार्थोंऽस्तीति भावः । किमित्येवमत आह-' नत्थि सत्तोववाइया' अस्ति शब्द एकवचनोऽप्यत्र बहुवचनान्तो द्रष्टव्यः, ततश्च न विद्यन्ते ' सच्चाः प्राणिनः उपपातेन निर्वृत्ताः औपपातिकाः भवाद्भवान्तरगामिनो न भवन्तीति तात्पर्यार्थः । अत्राह पर:- प्रागुपन्यस्तभूतवादिनोऽस्य च तञ्जीवतच्छरीरवादिनश्च मिथः को विशेषः १ इत्यत्रोच्यते-भूतवादिना स्वेवं प्ररूप्यते - भूतान्येव कायाकारपरिणतानि धावनवल्गनादिकां क्रियां कुर्वन्ति, तञ्जीवतच्छरीरवादी त्वेवं प्ररूपयति- कायाकारपरिणतेभ्यो भूतेभ्यश्चेतनाख्य आत्मोत्पद्यते अभिव्यज्यते वा तेभ्यश्चाभिन्न इति । कायाकारपरिणतेभ्यो भूतेभ्य आत्मोत्पद्यते, 1 Jain Education International For Private & Personal Use Only 161 १ समया ध्ययने तजीवत च्छरीर वादः । ॥५॥ www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy