________________
निसिं पञ्चमाणाणं ॥१॥” इति वचनात् । देवाश्च सदाऽपि सुखिन एव, यतः "तहिं देवा वंतरिया, वरतरुणीगीयवाइयरवेणं । निचं सुहिया पमुइया, गयंपि कालं न याणंति ॥ २॥" एवं वैमानिका अपि सुखिन: " देवाणं देवलोए, जं सुक्खं तं नरो सुभणिओवि । न भणइ वाससएण वि, जस्स वि जीहासयं हुजा ॥३॥ तिर्यञ्चस्तु दु:खिन एव "तिरिया कसंकुसारा-निवायवहबंधमारणसयाइं। नेव इहं पाविता, परत्थ जह नीमिया हुंता ॥ ४ ॥" मनुष्यास्तु केपि सुखिनः केपि दुखिनः " केचिल्लक्षम्भरयः, कोटिम्भरयश्च केऽपि केपि नराः । केपि च नात्मम्भरयः, फलमेतत्सुकृतदुष्कृतयोः ॥५॥" एवं चातुर्गतिका अपि प्राणिनः सुखदुःखव्यवस्थया व्यवस्थिता विलोक्यन्ते, यतः "प्रत्यक्ष एव विश्वेऽस्मिन् , प्रपश्चः पुण्यपापयोः। यद्विभिन्नं जगत्सर्वे, सुखदुःखव्यवस्थया ॥१॥" एवं स्थिते ये केचन वादिनः " एक एव हि भूतात्मा, देहे देहे व्यवस्थितः। एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ॥१॥” इत्यादिप्ररूपयन्ति, तत्सर्व मिथ्या, किश्च-सवेगतत्वे आत्मनो बन्धमोक्षाद्यभावः, तथा प्रतिपाद्यप्रतिपादकविवेकाभावाच्छास्त्रप्रणयनाभावश्च स्यादिति, तेनोन्मत्तप्रलपितमिव भवदुक्तं न सङ्गतिमङ्गतीति श्रुत्वा सर्वगतात्मवादी मौनमालम्ब्य स्थितः ॥१०॥ अथ तज्जीवतच्छरीरवादी प्राह
१ तत्र देवा व्यन्तरिका वरतरुणीगीतवादितरवेण । नित्यं सुखिताः प्रमुदिता गतमपि कालं न जानन्ति ॥ २॥ २ देवानां देवलो के यत्सुखं तन्नरः सुभणितोऽपि । न भणति वर्षशतेनापि यस्यापि जिह्वाशतं भवेत् ।। २ ॥ ३ तियश्चः कषानुशारानिपातवधबन्धनमारणशतानि । नैवेह प्राप्नुयुः परत्र यदि नियमिता अभूवन् ॥ ४ ॥
Jain Education
a
l
For Private & Personal Use Only
www.jainelibrary.org