SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्ग सूत्र दीपिकान्वितम् । १ समया ध्ययने अद्वैतवादनिरसनम् । ॥४॥ | एवमेगेत्ति जपंति, मंदा आरंभनिस्सिया। एगे किच्चा सयं पावं, तिवं दुक्खं नियच्छइ ॥ १०॥ व्याख्या-'एवं ' पूर्वोक्तन्यायेन 'एके' केचन परवादिनः आत्माऽद्वैतवादमाश्रित्य 'जल्पन्ति' प्रतिपादयन्ति । किम्भृतास्ते ? ' मन्दा' जडा:-सम्यक्परिज्ञानविकलाः, अत एव 'मन्दाः' युक्तिविकला आत्माद्वैतपक्षसमाश्रयणात् , तथाहि-योक एवात्मा स्यानात्मबहुत्वं ततो ये सवाः' प्राणिनः कृषिवलाः ' आरम्भे' प्राण्युपमर्दनकारिणि व्यापारे नि:श्रितास्ते स्वयमेवारम्भकृतं पापफलमनुभवन्ति, नान्ये, यद्यात्मा एक एव सर्वत्र तर्हि एकेन विहिते पापे तत्फलं सर्व एवानुभवन्ति, एकेन विहिते पुण्ये तच्छुभफलमपि सर्वेऽप्यनुभविष्यन्ति, न चैवं दृश्यते, स्वस्वकर्मफलभुजः सर्वेऽपि प्राणिनः, यद्येक एवात्मा सर्वगतः शरीरं शरीरं प्रति जलचन्द्रवत्प्रतिभासते तर्हि एके सुखिनः एके दुःखिनः एके सधनाः एके नि:स्वाः एके मूर्खाः एके प्राज्ञाः एके राजानः एके रङ्काः एके सुरूपाः एके कुरूपाः, एवं अन्धा काणाः कुब्जाः पङ्गवः, एके पटुशरीरा इत्यादि व्यवस्था व्यभिचरति, तस्माद्यत्किञ्चिदेतत् । यदिवा एकश्चौर्यादिकमसमञ्जसं करोति, स एव वधबन्धनच्छेदनभेदनादिकां विडम्बनां सहते, नापरे, यद्येक एवात्मा स्यात्तर्हि एकेन जन्तुना कृतेऽपराधे सर्वेऽपि सुरा मानवास्तिर्यश्चो नारकाच सर्वेऽपि सदशामेव दुःखरूपां विडम्बनामनुभवन्ति, न चैवं दृश्यते, यतो नारकाः सर्वदाऽपि दुःखरूपां विडम्बनामनुभवन्तो दृश्यन्ते " अच्छिनिमीलणमित्तं, नत्थि सुहं दुक्खमेव अणुबद्धं । नरए नेरइयाणं, अहो. १ अक्षिनिमीलनमात्रं नास्ति सुखं दुःखमेवानुबद्धं । निरये नैरयिकाणां अहर्निशं पच्यमानानाम् ॥ १॥ नएक रात दतत् । यदिवाई एकेन जन्तुनदृश्यते, यतो ॥४ ॥ Jain Education na For Privale & Personal use only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy