SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ वित्तं सोयरिया चैव, सबमेयं न ताणए । संखाय जीविडं चेव, कम्मुणा उ तिउ ॥ ५ ॥ व्याख्या-— वित्तं ' सचित्तमचित्तं वा 'सोदर्याः' आतृभगिन्यादयः संसारान्तर्गतस्यासुमतो दुस्सहा- अतिकटुकाः शारीरमानसा वेदनाः समनुभवतो न ' त्राणाय ' रक्षणाय भवन्ति इति 'सङ्ख्याय ' ज्ञात्वा जीवितं च मितं प्राणिनां ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया च सचित्ताचित्तपरिग्रहं प्राण्युपघातस्वजनस्नेहादीनि बन्धनस्थानानि प्रत्याख्याय कर्मणः सकाशात्रुट्यति - अपगच्छति - कर्मणः पृथग् भवति, यदि वा 'कर्मणा ' क्रियया संयमानुष्ठानरूपया बन्धनात्रुय्यति । इदमुक्तं भवति जीवस्य संसारसागरान्तभ्रमतो दुस्सहा वेदनाः समनुभवतो वित्तं सोदर्याश्व त्राणाय न भवन्ति इति ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया च सर्व धनस्वजनादिसम्बन्धं प्रत्याख्याय कर्मणः पृथग्भवतीति गाथार्थः ॥ ५ ॥ स्वसमयप्रतिपादनानन्तरं परसमयप्रतिपादनायाह एए गंथे विउक्कम, एगे समणमाहणा । अयाणंता विउस्सिता, सत्ता कामेहि माणवा ॥ ६ ॥ व्याख्या - एतान् ग्रन्थान् अर्हदुक्तान् 'व्युत्क्रम्य' परित्यज्य 'एके' केचन, न सर्वे, श्रमणाः - शाक्यादयो 'ब्राह्मणा : ' बृह[बाई]स्पत्यमतानुसारिणः अजानानाः 'विविधं' अनेकप्रकारं 'उत्' प्राबल्येन 'सिताः ' बद्धा: - स्वसमयेष्वभिनिविष्टा:स्वमतकदाग्रहग्रस्ताः, एवंविधा मानवाः स्वस्वदर्शननानुरागिण इच्छामदनादिके कामे आसक्तास्सन्तः प्रवर्त्तन्ते । इदमुक्तं भवति - अर्हदुक्तान् ग्रन्थान् दयारसमयान् परित्यज्य स्वमतिविकल्पितग्रन्थेषु आसक्ता एके श्रमण ब्राह्मणाः परवादिनः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy