________________
सयगडाङ्ग
सूत्रं
समयाध्ययने परसमयेषु चार्वाकः।
दीपिकान्वितम् ।।
परमार्थमजानन्तः केवलं खकदाग्रहग्रस्ताः स्वस्वमतानुरागिणो मानवाः कामे इच्छामदनाख्ये प्रवर्तन्त इति गाथार्थः ॥६॥
अथ ग्रन्थकारपूर्व चार्वाकमतं दर्शयन्नाहसंति पंच महब्भूया, इहमेगेसिमाहिया । पुढवी आऊ तेऊ य, वाऊ आगासपंचमा ॥ ७॥ ___ व्याख्या-चाकाः एवं प्रतिपादयन्ति- सन्ति' विद्यन्ते ' इह ' जगति पञ्च महाभूतानि, सर्वलोकव्यापित्वात् , इह लोके एकेषां-भृतवादिना आख्यातानि' प्रतिपादितानि तत्तत्तीर्थकता तैर्वा भूतवादिभिश्चार्वाकः 'आख्यातानि' स्वयमङ्गीकृत्यान्येषां प्रतिपादितानि । कानि तानि ? 'पुढवी' इत्यादि, पृथिवी-काठिन्यरूपा, आपो-द्रवलक्षणा, तेजउष्णरूपं, वायुश्चलनलक्षणः, आकाशं-शुपिरलक्षणं, तच्च पञ्चमं, एतानि पञ्च महाभूतानि-न कैश्चिदप्यपह्वोतुं शक्यानि, एतावता चार्वाका सर्वलोकव्यापित्वात् पञ्च महाभूतानि प्रतिपादयन्ति इति गाथार्थः ॥७॥
अथ पुनश्चार्वाकः स्वमतस्वरूपं दर्शयतिएए पंच महन्भूया, तेब्भो एगोत्ति आहिया। अह तेसि विणासे उ, विणासो होइ देहिणो ॥ ८॥ ___ व्याख्या-एतान्यनन्तरोक्तानि पृथिव्यादीनि पञ्च महाभूतानि, यानि, तेभ्य:-कायाकारपरिणतेभ्यः 'एकः' कश्चिचिपो भूताव्यतिरिक्त आत्मा भवति, न भूतेभ्यो व्यतिरिक्तोऽपरः कश्चिदात्माऽस्ति, यथाऽपरे वादिनः प्ररूपयन्ति, यथा-देहाद् व्यतिरिक्तः पृथगात्माख्या पदार्थोऽस्तीति, न तथा परलोकयायी सुखदुःखादिभोक्ता जीवाख्यः पदार्थोऽस्तीति
॥
३
॥
Jain Education in
For Privale & Personal use only
www.jainelibrary.org