SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्ग सूत्र दीपिकान्वितम् । ॥ २ ॥ सयं तिवाय पाणे, अदुवाऽन्नेहिं घायए । हणंतं वाऽणुजाणाइ, वेरं वडइ अप्पणो ॥ ३ ॥ व्याख्या—स परिग्रहवान सन्तुष्टः सन् भूयस्तदर्जन परः समर्जितोपद्रवकारिणि च द्वेषमुपगतः प्राणिनः प्राणानतिपातयति पुनः स परिग्रहाग्रही लोभाभिभूतः सन् स्वयं व्यापादयति अप[रैरपि ]रानपि (१) घातयति, त[न] तश्चान्यान् समनुजानीते, तदेवं कृतकारितानुमतिभिर्जीवोपमर्दनेन जन्मान्तरशतान्यात्मनो वैरं वर्द्धयति, ततश्च दुःखपरम्परारूपबन्धनान मुच्यते । किमुक्तं भवति ? परिग्रहारम्भनिरतो जन्तुर्लोभाभिभूतः सन् स्वयं प्राणिनः अतिपातयति, अपरैर्घातयति नतोऽन्यान् समनुजानीते, ततश्च जन्मान्तरशतान्यनुबन्धि केवलं वैरमेव वर्द्धयति, उपलक्षणार्थत्वान्मृषावादादयोऽपि बन्धहेतवो द्रष्टव्या इति गाथार्थः ॥ ३ ॥ पुनर्बन्धमेवाश्रित्याह जसि कुले समुत्पन्ने, जेहिं वा संवसे नरे । ममाई लुप्पई बाले, अन्नमन्नोई मुच्छिते ॥ ४ ॥ व्याख्या – यस्मिन्कुले राष्ट्रकूटादौ समुत्पन्नः, यैर्वा समं वसति पांशुक्रीडादिकं करोति, एवंविधो 'नशे' मनुष्यः पितृमातृभ्रातृभगिनी भार्यापुत्रादिषु 'ममत्ववान् ' ममतां कुर्वन् स्वपरिवारे स्निह्यन् बालोऽज्ञो लुप्यते, ममत्वजनितेन कर्मणा ' लुप्यते ' विलुप्यते, कुत्र ? संसारे-नारकतिर्यग्मनुष्यामरलक्षणे 'बाध्यते ' पीडयते । इदमुक्तं भवति - 'बालो 'ऽज्ञो 'नरो ' मनुष्यः स्वपरिवारममतोऽद्धान्तचेताः सँश्चातुर्गतिके संसारे सदसद्विवेकशून्यः सन् परिभ्रमति, ततश्च तिर्यग्नरकादिषु असातवेदनया पीडयत इति गाथार्थः ॥ ४ ॥ किं वा जानन् बन्धनं त्रोटयतीत्यस्योत्तरमाह - Jain Education ional For Private & Personal Use Only १ समया ध्ययने बन्धननि रूपणम् । www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy