SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ विऊ दुहओ वि सोयपडिच्छिन्ने णो पूयासकारलाभट्ठी धम्मट्ठी धम्मविऊ णियागपडिवन्ने समि. [सम]यं चरे दंते दविए वोसट्टकाए निग्गंथे त्ति वच्चे ॥५॥ _ व्याख्या-अत्रापि ब्राह्मण श्रमणभिक्षुवत्पूर्वोक्तगुणयुक्तो निर्ग्रन्थो वाच्यः । विशेषमाह 'एगे' एको रागद्वेष| रहितत्वात् ' एगचिऊ' आत्मानमेकमेव [परलोकगामिनं] जानाति " एगस्स होइ मरणं, एगो चेव उववजई " इति वचनान्न कोऽपि कस्यापि सहायो, नरकादिषु एक एव वेदनामनुभवति, मुक्तावप्येक एव याति, अथवा संसारे न कोऽप्या त्मीया-अहमेक एवाऽस्मि, अथवा 'एको' मोक्षः संयमो वा, तं वेत्तीति । 'बुद्धोऽवगततवः 'संछिन्नसोए' सम्यग्. छिन्नाश्रवद्वार:-स्थगिताबद्वार इत्यर्थः। तथा ' सुसंयतः ' कर्मवत्संयतगात्रो निरर्थककायक्रियारहितः । तथा [स]समितः पञ्चभिः समितिभिः 'सुसामायिकः' समशत्रुमित्रः । तथा आयवायपत्ते-तथाऽऽत्मन उपयोगलक्षणस्य जीवस्यासंख्येयप्रदेशात्मकस्य संकोचविकाशभाजः स्वकृतफलभुजः प्रत्येकसाधारणशरीरतया व्यवस्थितस्य द्रव्यपर्यायतया नित्याद्यनन्तधम्मोत्मकस्य वा वाद-आत्मवादस्तं प्राप्त आत्मवादप्राप्तः, सम्यक्-यथाऽवस्थितात्मस्वतववेदीत्यर्थः । तथा 'विद्वान् ' अवगततचा, तथा — द्विधाऽपि ' द्रव्यतो भावतश्च, तत्र द्रव्यतः संवृतेन्द्रियो भावतो रागद्वेषरहितः, एवं द्विधाऽपि परिच्छिन्नस्रोताः, तथा नो पूजासत्कारलाभार्थी, किन्तु निर्जरापेक्षी सर्वास्तपश्चरणादिकाः क्रिया विदधाति । तथा 'धर्मार्थी' श्रुतधर्मचारित्रधम्मोपेत इत्यर्थः, सर्वाः क्रिया धर्मार्थमेव करोति, न पूजाद्यर्थ क्रियासु प्रवर्तते । तथा 'धम्मविऊ' धर्म स्वरूपं तत्फलं च स्वर्गावाप्तिलक्षणं सम्यग्वेत्ति | धर्म च सम्यग् जानानो यत्करोति तदर्शयति-'नियागो' मोक्षमार्गस्तं Jain Education inte For Privale & Personal use only w w .jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy