SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ अणुत्तरे य से ठाणे, कासवेणं पवेइए । जं किच्चा निव्वुडा एगे, निटुं पावंति पंडिया ॥ २१ ॥ व्याख्या-'अनुत्तरं' प्रधानं [ तत् ] स्थानं संयमाख्यं 'काश्यपेन' श्रीवर्द्धमानस्वामिना 'प्रवेदितं' कथितम् । कथम्भूतम् ? यदनुत्तरं संयमाख्यं स्थानं कृत्वा' अनुपाल्य निर्धताः' निर्वाणमनुप्राप्ताः, निर्वृताश्च सन्तः संसारचक्रवालस्य 'निष्ठां' पर्यवसानं पण्डिताः प्राप्नुवन्ति । तदेवम्भूतं संयमस्थानं काश्यपेन प्रवेदितं यदनुपाल्य सिद्धिमवाप्नुवन्तीति गाथार्थः ॥ २१ ॥ अपि चपंडिए वीरियं लद्धं, निग्घायाय पवत्तगं । धुणे पुवकडं कम्म, णवं चाविण कुवती ॥ २९ ॥ व्याख्या-'पण्डितो' विवेकी 'वीर्य' कर्मोद्दलनसमर्थ सत्संयम[वीय] तपोवीय वा ' लब्ध्वा' प्राप्य । निःशेषकर्मणो निर्घाताय प्रवर्तकं पण्डितवीर्य बहुभवशतदुर्लभं कथञ्चिकर्म विवरादवाप्य 'धुनीयात्' अपनयेत् । पूर्वभवेष्वनेकेषु यत्कृतं कर्म अष्टप्रकारं तत् पण्डितवीर्येण धुनीयात् , नवं चाश्रवनिरोधान्न करोत्यसाविति गाथार्थः ॥२२॥ किञ्च न कुवती महावीरे, अणुपुवकडं रयं । रयसा संमुहीभूतो, कम्मं हिच्चा ण जं मयं ॥ २३ ॥ व्याख्या-'महावीरः कर्मविदारणसहिष्णुः सन् आनुपूर्वेण-मिथ्यात्वाविरतिप्रमादकषाययोगैर्यत्कृतं रजोऽपर-IN जन्तुभिस्तदसौ न करोति । स च तत्प्राक्तनं कर्म अवष्टभ्य [ सत्संयमात्संमुखीभूतः, ] तदभिमुखी भूतश्च यदष्टप्रकार कर्म, तत्सर्व 'हित्वा त्यक्त्वा मोक्षस्य सत्संयमस्य वा सम्मुखीभवतीति गाथार्थः ॥ २३ ॥ अन्यच्च Jain Education Interational For Privale & Personal use only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy