________________
सूयगडाङ्ग
सूत्रं I दीपिकान्वितम् ।। ॥ १६१॥
सम्यग्दर्शनप्राप्तिदुर्लभा । तथा 'दुर्लभा' दुरापा तथाभूता-सम्यग्दर्शनप्राप्तियोग्या 'अर्चा ' लेश्या-ऽन्तःकरणपरिणतिर- कृतधर्माणामिति, तत्रापि ये शुद्धं धर्म प्ररूपयन्ति तेषामर्चा दुर्लभा । एतावता शुद्धधर्मप्ररूपिणो दुर्लभास्तथा धर्मप्रतिपत्तियोग्यास्तेऽपि सुदुर्लभा इति गाथार्थः ॥ १८॥ किश्चजे धम्मं सुद्धमक्खंति, पडिपुन्नमणेलिसं । अणेलिसस्स जं ठाणं, तस्स जम्मकहा कुओ? ॥१९॥
व्याख्या-ये महापुरुषा वीतरागाः परिहितैकरताः 'शुद्ध' अवदातं विशुद्धं धर्म प्ररूपयन्ति-आख्यान्ति, स्वतः I समाचरन्ति[ च]। 'प्रतिपूर्ण' सम्पूर्ण यथाख्यातचारित्ररूपं वा 'अनीदृशं' अनन्यसदृशं धर्ममाख्यान्त्यनुतिष्ठन्ति च । तदेवमनीदृशस्या-नन्यसदृशस्य ज्ञानचारित्रोपेतस्य यत्स्थानं मोक्षाख्यं, तत्प्राप्तस्य तस्य प्राणिनः कुतो जन्मकथा ? जातो मृतो वेत्येवंरूपा कथा स्वप्नान्तरेऽपि न, तस्य कर्मबीजाभावाजन्ममृत्युकथा न विद्यते । “दग्धे बीजे यथाऽत्यन्तं, [प्रादुर्भवति नाङ्करः। कर्मबीजे तथा दग्धे, न रोहति भवाङ्करः॥१॥]" इति वचनादिति गाथार्थः ॥ १९॥ TV कुतो कयाइ मेधावी, उप्पज्जति तथा गया। तहागया अपडिन्ना, चक्खू लोगस्सऽणुत्तरा ॥ २०॥
व्याख्या-कर्मबीजाभावात् 'कुतः' कस्मात्कदाचिदपि 'मेधाविनो' ज्ञानात्मकास्तथा-पुनस्नावृत्या गताः, यथा पुनरस्मिन् संसारे अशुचिगर्भाधानं न समुत्पद्यन्ते, न कथञ्चित्कर्मोपादानाभावादुत्पद्यन्ते । एतावता सिद्धिगतानां पुनरागमनं नास्तीति भावः । यतस्ते तीर्थकराः 'तथागताः' अप्रतिज्ञा-निदानरहिताः निराशंसास्तथा लोके ' अनुत्तराः" सर्वोत्तमाः सर्वलोकस्य चक्षुर्भूताः सर्वज्ञा भवन्तीति गाथार्थः ॥ २० ॥
१५ आदानीयाध्ययने संसार्णवतारकत्वं ज्ञानाद्याराधनाया।
-
१६१॥
Jain Education intamational
For Privale & Personal use only
www.jainelibrary.org