________________
सम्यक्त्वादिकायां सामग्रयां न तद्भव एव मोक्षमास्कन्दन्ति, अपितु सौधर्माद्याः पञ्च [ पञ्चानु ]त्तरविमानावसाना देवा मवन्त्येतल्लोकोत्तरीये प्रवचने श्रुतं-आगम एवम्भूतः सुधर्मस्वामी वा जम्बूस्वामिनमुद्दिश्यैवमाह-यथा मयैतल्लोको तरी ये भगवत्य- इत्युपलब्धं । तद्यथा - अवाप्तसम्यग्दर्शनः सिद्ध्यति वैमानिको वा भवतीति, परमेतन्मनुष्यगतावेव मोक्षगमनं पञ्चो[ पञ्चानु]त्तरविमानगमनं चेतीति गाथार्थः ॥ १६ ॥
मनुष्यगता वेवैतन्नान्यत्रेति दर्शयितुमाह
अंतं करिति दुक्खाणं, इहमेगेसि आहियं । आघायं पुण एगेसिं, दुल्लभेऽयं समुस्स ॥ १७ ॥
व्याख्यान ह्यमनुष्या अशेषदुःखानामन्तं कुर्वन्ति, तथाविधसामग्र्यभावात् । यथा एकेषां वादिनामाख्यातमेतत्, एके वादिन एवमाख्यान्ति देवा एवोत्तरोत्तरं स्थानमास्कन्दन्तोऽशेष क्लेशप्रहाणं कुर्वन्ति, एतावता देवा अपि मोक्षगतयो भवन्ति (इति) एके वादिनः - शाक्यादयः प्रतिपादयन्ति, तदपास्तं, मनुष्या एव सिद्धिगमनार्हा, नापरे । परमेकेषां गणधरादीनामेतदाख्यातं, तद्यथा - युगसमिलादिन्यायावाप्तकर्मविवशत् योऽयं शरीरसमुच्छ्रयः सोऽकृतधर्मोपायैरसुमद्भिमहासमुद्र भ्रष्टरत्नवदुर्लभो भवतीति गाथार्थः ॥ १७ ॥ अपि च
इओ विद्धंसमाणस्स, पुणो संबोहि दुलहा । दुलहाओ तहऽच्चाओ, जे धम्मट्टं वियागरे ॥ १८ ॥ व्याख्या -' इतो' मनुष्यभवाद्विध्वंसमानस्याकृतपुण्यस्य पुनरस्मिन् संसारे परिभ्रमतो जीवस्य बोधिः सुदुर्लभा -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org