________________
कृतस्य समवसरणादेरुपभोगात्कथमसौ सत्संयमवान् ? उच्यते 'अणासए' न विद्यते 'आशा' अभिप्रायो यस्यासावनाशयः, यदिवा द्रव्यतो विद्यमानेऽपि समवसरणादिके भावतोऽनास्वादको, गार्थाभावात् । सत्यप्युपभोगे । यतः' प्रयतः संयमवानेव । तथा 'दान्त' इन्द्रिय-नोइन्द्रियाभ्यां दान्तः, तथा 'दढे' दृढः परीषहोपसग्गैरप्यक्षोभ्यस्तथा 'आरतमैथुनो' निवृत्तमैथुनाभिप्राय इति गाथार्थः ॥ ११ ॥ नीवारे व ण लीएजा, छिन्नसोए अणाविले । अणाविले सया दंते, संधि पत्ते अणेलिसं ॥ १२ ॥ || ___ व्याख्या-'नीवारः' शूकरादीनां वध्यस्थानप्रवेशनोपायभूतो भक्ष्यविशेषस्तत्सदृशमेतन्मैथुन, यथाऽसौ शुकरो नीवारादिना प्रलोभ्य वध्यस्थानमानीय बहुविधा वेदनाः प्राप्यते, एवम सावप्यसुमानीवारकल्पेन स्त्रीप्रसङ्गेन वशीकृतो बहुप्रकारा यातनाः प्राप्नोति, अतो नीवारप्राये मैथुने न ज्ञाततत्त्वो लीयेत । कथम्भूतः साधुः ? 'छिन्नश्रोताः' छिन्नाश्रवद्वारस्तथा ' अनाविलो' मलरहितो, रागद्वेषाभावात् । तथा अना(विलः)कुलः, विषयनिवृत्तत्वात् स्वस्थचेताः । तथा [सदा] दान्त-इन्द्रिय-नोहन्द्रियदमनात् । ईदृशस्तु भावसन्धि कर्मविवरलक्षणमनीदृश-मनन्यतुल्यं प्राप्तो भवतीति गाथार्थः ।।१२।। अणेलिसस्स खेयन्ने, न विरुज्झेज केणई । मणसा वयसा चेव, कायसा चेव चक्खुमं ॥ १३॥ |
व्याख्या-'अनीदृशः' अनन्यसदृशः संयमस्तस्मिन् 'खेदज्ञो' निपुणः साधुः केनचित्साई न विरोधं कुर्वीत, सर्वेषु प्राणिषु मैत्री भावयेत् , कथं ? मनसा वाचा कायेन, दृष्टिपूतपादचारी सन् परमार्थतश्चक्षुष्मान् भवतीति गाथार्थः ॥ १३ ॥
Jain Education Inter
For Private & Personal Use Only
jainelibrary.org