SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ | पायं चासौ महावीरस्तत्करोति, येन कृतेनास्मिन् संसारोदरे न पुनर्जायते, जन्माभावाच्च नापि म्रियत इति गाथार्थः ॥७॥ केन कारणेन संसारे न जायते न म्रियते ? इत्याशङ्कथाह___ण मिजई महावीरे, जस्स नत्थि पुरेकडं। वाउब जालमञ्चेति, पिया लोगंसि इथिओ ॥ ८॥ व्याख्या-स महावीरः परित्यक्ताशेषकर्मा न जात्यादिना मीयते. न म्रियते वा, जातिजरामरणरोगशौकैर्वा संसारे पर्यटन भ्रियते-न पूर्यते । किमिति ? यतस्तस्यैव जात्यादिकं भवति यस्य पुराकृतं कर्म विद्यते, यस्य भगवतो महावीरस्य पुराकृतं कर्म न विद्यते, न तस्य मरणं [जातिजरामरणैर्भरणं वा ] सम्भाव्यते, जन्मनोऽभावात् । तस्य कथं पुराकृतकाभावः ? यतस्तस्य स्त्रीः पराभवं कर्तुं न शक्नोति, यथा वायुरग्निज्वालामतिक्रामति-अग्निमध्ये भूत्वा व्रजति, परं वायुनं दह्यते, एवं लोके स्त्रीरपि प्रिया अग्निज्वालासमाना, साधुर्वायुममानः, यथा वायुरग्नेमध्ये भूत्वा ब्रजति परं न दह्यते तथा साधुरपि न स्त्रीभिर्जीयते, न स्त्रियः पराभवितुं शक्नुवन्ति, स्त्रीसंसर्गात्कर्मबन्धस्तदभावात्कर्मबन्धाभाव .इति माथार्थः ॥८॥ इत्थीओ जे ण सेवंति, आइमोक्खा हु ते जणा। ते जणा बंधणुम्मुक्का, णावखंति जीवितं ॥९॥ व्याख्या-ये महासत्चाः स्त्रियो न सेवन्ते, स्त्रीप्रसङ्गं नाभिलषन्ति, ते साधवः आदिमोक्षा अवगन्तव्याः। आदौ मोक्षस्तेषामेव यैः स्त्रीप्रसङ्गो निवारितः, नान्ये आदिमोक्षाः, ते तु स्त्रीपाशबन्धनोन्मुक्ततयाऽशेषकर्मबन्धनोन्मुक्ताः सन्तो Jain Education Interational For Privale & Personal use only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy