SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ सूचगहाङ्ग सूत्रं दीपिकान्वितम् । अथ आदानीयाभिधं पञ्चदशमध्ययनम् । अथ पञ्चदशमारम्यतेजमतीतं पडुप्पन्नं, आगमिस्सा य णायओ। सव्वं मन्नति तं ताई, सणावरणंऽतए ॥१॥ व्याख्या-यत् किमपि द्रव्यजातमतीतं यच्च प्रत्युत्पन्नं यच्चानागतं, कालत्रयभावि, तस्य यथावस्थितस्वरूपं यो ['मन्यते'] जानाति, जानानश्च विशिष्टोपदेशदानेन [नायक:-प्रणेता] संसारोत्तारणतः सर्वप्राणिनां वायी स्यात् , स च दर्शनावरणीयस्य कर्मणोऽन्तकः । मध्यग्रहणेन घातिचतुष्टयस्यान्तकद्रष्टव्य इति गाथार्थः ॥ १॥ अंतए वितिगिच्छाए, जे जाणति अणेलिसं । अणेलिसस्स अक्खाया, ण से होति तहि तहिं ॥२॥ व्याख्या-यो घातिकर्मचतुष्टयक्षपकः स 'विचिकित्सा' चित्तविप्लुतिर्मिध्याज्ञानं, तस्यान्तकृद्ज्ञेयः। घातिकर्मचतुष्टयक्षयकर्मिथ्याज्ञानं न स्यादिति भावः। यो घातिक्षयकृत् स 'अनीदृशं' निरुपमं जानाति, एतावता नापर: कश्चित्तत्सदृक् ज्ञानी जगत्यस्ति । यस्त्वनीदृशस्यानन्यसदृशस्यार्थस्य परिच्छेदआख्याता, स तेषु तेषु दर्शनेषु बौद्धादिषु न स्यात् । स एवं बौद्धादिदर्शनेषु न मुक्तिमिच्छति, अहंद्दर्शनमन्तरेण न कर्मेम्यो मुक्ति प्ररूपयतीति गाथार्थः ॥२॥ तहिं तहिं सुअक्खायं, से य सच्चे सुआहिए। सदा सञ्ण संपन्ने, मित्तिं भूएसु कप्पए ॥३॥ १५ आदानीयाध्ययने सावधयोगवर्जनीयत्वं सुसाधूनाम् । १५७॥ Jan Educatio n al For Private Personal Use Only www.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy