________________
सूयगडाङ्ग
चत्रं
दीपिकान्वितम् । ॥१५६॥
वगच्छतीति गाथार्थः ॥ २५॥ किञ्च
___ अल्सए नो पच्छन्नभासी, नो सुत्तमत्थं च करेज ताई।
सत्थारभत्ती य अणुवीइ वायं, सुयं च धम्म पडिवाययंती ॥ २६ ॥ व्याख्या-सर्वज्ञोक्तमागमं न लूपये-न क्षयेत्तथा न प्रच्छन्नमाषी मवेत् , सिद्धान्तार्थ-सार्वजनीनं, तत् प्रच्छन्नभाषणेन न गोपयेत् अपशब्दभाषणेनापि न सूत्रं क्षयेत्तथा अर्थ न गोपयेत् । तथा 'पायी 'षटकायपालकः । तथा प्रच्छन्नं चार्थ नापरिणताय भाषेत, सिद्धान्तरहस्यमपरिणतस्याग्रे प्रकटनं दोषायैव संपद्यते । तथा 'शास्ता' परहितैकरतः, तथा शास्तरि या व्यवस्थिता मक्तिस्तया अनुविचिन्त्य-ममानेनोक्तेन न काचिदाबाधा स्यादित्येवं पर्यालोच्य यथा श्रुतं गुरोः सकाशे तथैव प्रतिपादयेत् , न सुखशीलतां मन्यमानो यथाकथंचित्तिष्ठेदिति गाथार्थः ॥ २६ ॥
___ से सुद्धसुत्ते उवहाणवं च, धम्मं च जे विंदात तत्थ तत्थ ।
आदेजवक्के कुसले वियत्ते, से आरिहइ भासिउं तं समाह त्ति बेमि ॥ २७॥ ___ व्याख्या-अनया रीत्या यः प्ररूपयति तस्य सूत्रं शुद्धं कथ्यते, स धर्मोपदेशकः शुद्धसूत्र इति । तथोपधान-तपश्चरणं यद्यस्य सूत्रस्याभिहितमागमे तद्विद्यते यस्यासावुपधानवान्+। तथा 'धर्म' श्रुतचारित्राख्यं, यः सम्यग्वेत्ति 'तत्र तत्रे'ति + स्फुटं ध्वन्यतेऽनेन, यदुत-सर्वेऽप्यागमपन्थाः सति सामध्ये सामग्रीसद्भावे च योगोहनापरपर्यायोपधानपुरस्सरमेवाभ्येतव्या इति ।
१५ आदानाध्ययनेदर्शनान्त. रेषु मुक्तिरतिच्छकत्वम् ।
॥१५६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.orप