________________
भावार्थकथनतश्वालपे-द्भाषेत, नाल्पाक्षरकथनतः कृतार्थो मवेत् , प्रतिपूर्णभाषी स्यात् , अस्खलितामिलिताहीनाक्षरैर्भाव्य. मिति । आचार्यादेः सकाशात् सम्यगवबुद्धय निशम्य सम्यग् यथावस्थितमर्थ यथा गुरुसकाशादवधारितमर्थ [ प्रतिपाद्यं द्रष्टुं शीलमस्य स भवति सम्यगर्थदर्शी, स एवम्भूतः सन् ] तीर्थकराज्ञया शुद्ध-मवदातं निरवद्यं वचनमभियुञ्जीत । उत्सग्गै उत्सर्ग अपवादे चापवादं, न व्यत्ययं कुर्यात् । स्वपरसमययोर्यथास्वं वचनमभिवदेत् । एवमभियुञ्जन् भिक्षुः 'पापविवेकं' पापपरिहारं कुर्यादिति गाथार्थः ।। २४॥ किश्च
अहाबुइयाइं सुसिक्खएजा, जइज्ज या णातिवेलं वदेजा।
से दिट्ठिमं दिट्ठि ण लूसएज्जा, से जाणई भासिउं तं समाहि ॥ २५ ॥ व्याख्या-तीर्थकरगणधरादिभिर्यथोक्तानि तान्यहर्निशं सुष्टु शिक्षेत-ग्रहणशिक्षया सर्वज्ञोक्तमागमं सम्यग्गृहीयात, आसेवनाशिक्षया तु सेवेत, अन्येषां च तथैव प्ररूपयेत् । यो यस्य कर्त्तव्यस्य कालोऽध्ययनकालो वा, तां वेलामति. लङ्घय नातिवेलं वदेत , अध्ययनकर्तव्यमर्यादां नातिलङ्घयेत् , यथावसरं परस्पराबाधया सर्वाः क्रियाः कुर्यादित्यर्थः। स एवंविधगुणजातीयो यथाकालवादी यथाकालचारी 'सम्यकदृष्टिमान् ' यथावस्थितान् पदार्थान् श्रद्दधानो देशनां च कुर्वन् ' दृष्टिं' सम्यग्दर्शनं न लूपयेत्-न दृषयेत् । एतदुक्तं भवति-पुरुषविशेष ज्ञात्वा अपसिद्धान्तपरिहारेण तथा कथनीयं यथा श्रोतुः सम्यक्त्वं स्थिरी भवति । यश्चैवंविधः स माषितुं जानाति समाधि च ज्ञानदर्शनचारित्राख्यं सम्यग
Jain Education Inter
For Privale & Personal use only
anww.jainelibrary.org