________________
सूयगडाङ्ग
सूत्रं दीपिका
न्वितम् ।
न कत्थई भास विहिंसइजा, निरुद्धगं वावि ण दीहइजा ॥ २३ ॥ व्याख्या-तस्यैवं भाषाद्वयेन धर्म कथयतः साधो:-कश्चित्पण्डितस्तथैव समर्थमनुगच्छन् सम्यगवबुद्ध्यते, अपरस्तु मन्दमेधावितया 'वितथं ' अन्यथैवामिजानीयात् , तं च सम्यगनवबुद्ध्यमानं ' तथातथा' तेन तेन हेतदाहरणसद्यः क्तिप्रकटनप्रकारेण साधुरकर्कशैर्वचोभिस्तमवबोधयेत् , न पुनस्त्वं मृोऽसि ! एतदपि नावगच्छसि ! शठतरस्त्वं ! इत्यादि परुषवचनं न वयात् , मधुरभाषया भाषते, न परं तं अवगणयति । न तद्भाषां विहिंसते-न विध्वंसयति, न निन्दति । तथा 'निरुद्धं ' अर्थस्तोक दीर्घवाक्यमहता शब्ददर्दुरेण न कथयेत् , 'निरुद्धं' वा स्तोककालीनं व्याख्यानं न दीर्घये-न दीर्घकालिकं कुर्याद्, (अर्थात् ) स्तोकमप्यर्थमालजालप्रकटनेन न विस्तारयति, यता-“सो' अत्थो वत्तव्यो, जो भन्नइ अक्खरेहिं थोवेहिं। जो पुण थोवो बहुअक्खरेहिं सो होइ निस्सारो ॥१॥" इति वचनात, स्तोकाक्षरैर्बहुवक्तव्यमिति गाथार्थः ॥ २३ ॥
समालवेज्जा पडिपुण्णभासी, निसामिया समियाअट्ठदंसी ।
आणाइ सुद्धं वयणंऽभिउंजे, अभिसंधए पावविवेग भिक्खू ॥ २४ ॥ व्याख्या-यत् पुनरतिविषमत्वादस्पाक्षरैर्न सम्यगवबुध्यते, तच्छोभनेन प्रकारेण समन्तात्पर्यायशब्दोच्चारणतो १ सोऽर्थो वक्तव्यो यो भण्यतेऽशरैः स्तोकैः । यः पुनः स्तोको बहुभिरक्षरैः स भवति निस्सारः ॥ १ ॥
१४ ग्रन्थाध्ययने जिनागमस्यार्थस्य
चानत्वं व्याख्यानादौ।
॥१५५॥
॥१५५॥
Jan Education
For Private & Personal use only
|swww.jainelibrary.org