________________
Jain Education Inte
ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञेया परिहरेत्, पूजासत्कारादिना 'नो तुच्छए' नोन्मादं कुर्यात् । तथा ' णो य विकंधएज्जा' आत्मश्लाघां न कुर्यात् । तथा अनाकुलो x व्याख्यानावसरे, तथा ' अकषायी ' कपायरहितो भवेद्रिक्षुःसाधुरिति गाथार्थः ॥ २१ ॥
संकेज याऽसंकितभाव भिक्खू, विभज्जवायं च वियागरेज्जा ।
भासादुगं धम्मसमुट्ठितेहिं वियागरेज्जा समया सुपन्ने ॥ २२ ॥
व्याख्या - साधुः सूत्रार्थे निःशङ्कितोऽपि शङ्केत, नो गर्व कुर्यात्, अहमेवार्थवेत्ता, न मत्तुल्यः कश्चिदपरोऽस्तीति न कुर्वीत । तथा 'विभज्यवादं पृथगर्थ निर्णयवादं व्यागृणीयाद्यदिवा 'विभज्यवादं ' स्याद्वादं वदेत् । विभज्य वादमपि भाषाद्वितयेनैव ब्रूयादित्याह - भाषयोराद्यचरमयोः सत्या - ऽसत्याऽमृषयोर्द्विकं भाषाद्विकं तद्भाषाद्वयं क्वचित्पृष्टोऽपृष्टो. वा धर्मकथावसरे व्यागृणीयात् । सम्यग् संयमानुष्ठानेन समुत्थितैः साधुभिः सह, न पुनः कृत्रिमैरुदायिनृपमारकवत्, एवंविधैः साधुभिः सह विहरन् चक्रवर्त्तिद्रमकयोः समतया रागद्वेषरहितो वा शोमनप्रज्ञो भाषाद्वयोपेतः सम्यग्धर्मं व्याग्रणीयादिति गाथार्थः ॥ २२ ॥ किश्व -
अगच्छमाणे विहं वियाणे, तहातहा साहु अकक्कसेणं ।
X अणाइले " इति पाठान्तरे “अनाविलो-लोभादिनिरपेक्षः स्यात् ” इति हर्ष० ।
46
For Private & Personal Use Only
www.jainelibrary.org