________________
सूयगडाङ्गसूत्रं
दीपिकान्वितम् ।
॥१५४॥
Jain Education in
न मत्तुल्यो हेतुयुक्तिभिरर्थप्रतिपादयितेत्येवं मानं न सेवेत - न कुर्यात् । नाप्यात्मनो बहुश्रुतत्वेन [ तपस्वित्वेन वा ] प्रकाशनं कुर्यात् । तथा न चापि प्रज्ञावान् कस्यापि परिहासं कुर्यात् यदिवा अनवबुद्ध्यमाने श्रोतरि न तदुपहासं कुर्यात् । न चापि चाशीर्वाद 'बहुपुत्रो बहुधनो दीर्घायुर्वा [त्वं] भूया' इत्यादि व्यागृणीयादिति गाथार्थः ॥ १९ ॥
भूताभिसंकाइ दुछमाणे, णणिव्वहे मंतपदेण गोयं ।
ण किंचि मिच्छे मणुओ पयासुं, असाहुधम्माणि ण संवएजा ॥ २० ॥
व्याख्या—— भूताभिशङ्कया' जन्तूपमर्दशङ्कया आशीर्वादं सावद्यं जुगुप्सन्न ब्रूयात् । न ' मन्त्रपदेन' विद्याप्रयुञ्जनेन ' गोत्रं ' [ वाक् ] संयमं निस्सारं कुर्यात्, न राजादिना सार्द्धं जन्तुजीवोपमर्दकं मन्त्रं कुर्यात् । तथा ' मनुष्यो' भिक्षुः प्रजासु व्याख्यानं कुर्वन् लाभपूजासत्कारादिकं नेच्छेत्-नाभिलषेत् । तथा असाधूनां धर्मान् - छागवधतर्पणादिकान्न संवदेत्न ब्रूयादिति गाथार्थः ॥ २० ॥ किञ्च -
हासं पिणो संघति पावधम्मे, आए तहीयं फरुसं वियाणे ।
नो तुच्छ णो य विकथएजा, अणाउ [ अणाइ ]ले वा अक्साइ भिक्खू ॥ २१ ॥ व्याख्या- यथा परात्मनोर्हास्यमुत्पद्यते तथा 'न सन्धयेत् ' न कुर्यात् । तथा 'पापधर्म' सावधं वचो न वदेत्, तथा कुप्रावचनिकान्नोत्प्रासयेत् । तथा ' ओजो ' रागद्वेषरहितः सन् तथ्यमपि 'परुषं ' कठोरं वचः परिहरेत्, सावद्यं बचो
For Private & Personal Use Only
१४ ग्रन्थाध्ययने
प्रश्नकादे
रतिस्करण
स्वम् ।
॥१५४॥
www.jainelibrary.org