________________
ओभासमाणे दवियस्स वित्तं, ण णिकसे बहिया आसुपन्ने ॥ ४ ॥ व्याख्या-'अवसान' गुरोरन्तिकेऽवस्थानं, तद्यावजीवमिच्छे-दभिलषेत 'मनुजो' मनुष्यः साधुरित्यर्थः । स एव तचतो मनुष्यो यो यथाप्रतिज्ञातं निर्वाह यति, तच्च सदा गुरोरन्तिके व्यवस्थितेन निर्वाह्यते इत्येतदर्शयति-गुरोरन्तिके 'अनुषिता' अव्यवस्थित:-स्वच्छन्दविधायी यथाप्रतिज्ञातस्य नान्तकरो भवति, न यथाप्रतिज्ञातं निर्वाहयितुं समर्थः स्यानापि संसारस्यान्तं करोतीति ज्ञात्वा सदा गुरुकुलवासोऽनुसरणीयः, गुरुकुलवासं विना शिक्षितमपि विज्ञानमुपहासाय स्याद् , यतः "नहि भवति निर्विगोपक-मनुपासितगुरुकुलस्य विज्ञानं । प्रकटितपश्चाद्भाग, पश्यत नृत्यं मयूरस्य ॥१॥" एवं ज्ञात्वा गुरुकुलवासे स्थातव्यमिति दर्शयति-'ओभासमाणे दवियस्स वित्तं''अवमासयन्' उद्भासयन्-सम्यगनुतिष्ठन् 'द्रव्य( द्रविक)स्य' मुक्तिगमनयोग्यस्य साधोः सर्वज्ञस्य वा ' वृत्तं' अनुष्ठानं, तत्सदनुष्ठानतोऽ. वभासयेत्-धर्मकथिकः [कथनतो वोद्भासयेदिति]। तदेवं गुरुकुलवासो बहूनां गुणानामाधारः, अतो न निग्गेच्छेद् गच्छात्स्वेच्छचारी न भवेदाशुप्रज्ञ इति गाथार्थः ॥ ४ ॥
जे ठाणओ य सयणासणे य, परक्कमे यावि सुसाइजुत्ते ।
समितीसु गुत्तीसु य आसु आय] पन्ने, वियागरंते य पुढो वदेजा ॥५॥ व्याख्या-यो हि वैराग्यात् प्रव्रजितः साधुः, स 'स्थाने' कायोत्सर्गादौ शयने आसने गमने च 'पराक्रमं कुर्वन्'
Jain Education inte
For Privale & Personal Use Only
A
ww.jainelibrary.org