________________
अथ चतुर्दशं ग्रन्थाभिधमध्ययनम् ।
उक्तं त्रयोदशमध्ययनं, साम्प्रतं चतुर्दशमारम्यते ग्रन्थाख्यं, बाह्यग्रन्थपरित्यागाद्याथातथ्यं स्यात, अत( स्तद् ). एवाह, तत्रेयमादिगाथा
गंथं विहाय इह सिक्खमाणे, उट्ठाय सुबंभचेरं वसेज्जा ।
ओवायकारी विणयं सुसिक्खे, जे छए विप्पमायं न कुज्जा ॥१॥ व्याख्या-' इह ' प्रवचने ज्ञातसंसारस्वभावः साधुः सम्यगुस्थानेन उत्थितो 'ग्रन्थं ' परिग्रहं धनधान्यहिरण्यHIद्विपदचतुष्पदादिरूपं त्यक्त्वा ग्रहणासेवनारूपां च शिक्षां कुर्वाणः सम्यगासेवमानो नवभिब्रह्मचर्य गुप्तिभिगुप्त: [सुब्रह्मचर्य
वसे-त्तिष्ठेत् , यदिवा [ब्रह्मचर्य-] संयमस्तमावसेत-तं सम्यक्कुर्यात | गुर्वन्तिके यावजीवं वसमानो यावदम्युद्यतविहार NIन प्रतिपद्यते तावदाचार्यवचनस्य 'अवपातकारी' गुरोरादेशकारी विनयं सुष्ठ शिक्षे-द्विदध्यात् । तथा यश्छेको-निपुणः स संयमानुष्ठाने सदाचार्योपदेशे वा विविधं प्रमादं न कुर्यादिति गाथार्थः ॥ १॥
जहा दियापोतमपत्तजायं; सावासगा पवित्रं मन्नमाणं । तमचाइयं तरुणमपत्तजायं, ढंकाइ अवत्तगम हरेजा ॥२॥
Jain Education Intel
For Privale & Personal Use Only
telwww.jainelibrary.org