________________
व्याख्या-'अहोरात्र'महर्निशं सम्यगुत्थिताः-समुत्थितास्ते हि सदनुष्ठानवन्तस्तेभ्यः श्रुतधरेभ्यस्तथा [ताथा]गतेभ्यस्तीथकद्भयो वा धर्म संसारनिस्सरणोपायभृतं समवाप्य पुनः कर्मोदयान्मन्दभाग्यतया जमालिप्रभृतय आत्मोत्कर्षात्तीर्थकदा[द्या] ख्यातं सम्यगदर्शनादिकं मोक्षमार्ग अजोषयन्तः' असेवन्तः-मम्यगकुर्वाणा निन्हवा बोटिकाश्च स्वरुचिविरचितम्याख्याप्रकारेण निर्दोषमपि सर्वज्ञप्रणीतं मार्ग विध्वंसयन्ति, कुमार्ग प्ररूपयन्ति । एवं भाषन्ते-असौ सर्वज्ञ एव न भवति, यः ‘क्रियमाणं कृत 'मिति प्रत्यक्षेण विरुद्ध प्ररूपयतीति जमालिवचः, तथा 'यः पात्रादिपरिग्रहान्मोक्षमार्गमाविर्भावयति सोऽपि न सर्वज्ञः' इत्येवं चोटिकाः प्रतिपादयन्ति, एवं सर्वज्ञोक्तमश्रद्दधानाधृतिसंहननदुर्बलतया संयमभारं वोढुमसमर्थाः क्वचिद्विषीदन्तोऽपरेण केनापि वत्सलतया शिक्षिताः सन्तस्तं-शास्तारं परुष वदन्ति-कर्कशं निष्ठुरं भाषन्त इति गाथार्थः ॥ २ ॥
विसोहियं ते अणुकाहयंते, जे आयभावेण वियागरेजा।
अट्टाणिए होति बहुगुणाणं, जे नाणसंकाए मुसं वएज्जा ॥३॥ व्याख्या-कुमार्गप्ररूपणाऽपनयनद्वारेण विशोधितः सम्यग्दर्शनज्ञानचारित्राख्यो मोक्षमार्गस्तं मोक्षमार्ग 'ते' निन्हवा मिथ्यामतयः आत्मोत्कर्षात् स्वरुचिविरचितम्याख्याप्रकारेण व्यामोहिता 'आत्मभावेन' स्वाभिप्रायेण आचार्यपारम्पर्येणायातमप्यर्थ निषिद्ध्य अन्यथा व्याख्यानयन्ति । किमिति ? यतस्ते गम्भीराभिप्रायं सूत्रार्थ कर्मोदयात्पूर्वापरेण यथावत्परिणामयितुमसमर्थाः पण्डितमानिन उत्सूत्रं प्रतिपादयन्ति । आत्मभावव्याकरणं महतेऽनाय । स एवम्भूतः
Jan Education Interational
For Privale & Personal use only
www.jainelibrary.org