________________
अवगततच्वः सर्वाणि स्थानान्यशाश्वतानि, तथा नात्र संसारे सुखलेशोऽप्यस्तीत्येवं मन्यमानोऽप्रमत्तः सन् संयम पालयन् परिव्रजेदिति गाथार्थः ॥१८॥ किन
जे आयओ परओ वा वि णञ्चा, अलमप्पणो होति अलं परेसिं ।
तं जोइभूतं व सयाऽऽवसेज्जा, जे पाउकुज्जा अणुवीइ धम्मं ॥ १९ ॥ व्याख्या-यः स्वयं सर्वज्ञ आत्मनत्रैलोक्योदरविवरवर्तिपदार्थदर्शी यथावस्थितं लोकं ज्ञात्वा, यश्च गणधरादिकः परत-स्तीर्थकरादेर्जीवादीन पदार्थान् विदित्वा परेभ्य उपदिशति, स एवम्भूतो हेयोपादेयवेदी आत्मनः संसारात्रातुमलं, IP
आत्मानं भवाटव्या लवितुं समर्थः स्यात् , सदुपदेशदानेन परेषां च त्राता जायते, तमेवम्भूतं पदार्थप्रकाश[क]तया | 'ज्योतीरूपं' चन्द्रार्कप्रदीपकल्पमात्महितमिच्छन् भवभयोद्विग्न आत्मानं धन्यं मन्यमान आ[वसेत्-] सेवेत, गुर्वन्तिक एव यावज्जीवं संवसेत् । उक्तं च-" नाणस्स होइ भागी, थिरयरओ दसणे चरित्ते य । धन्ना आवकहाई, गुरुकुल वासं न मुंचंति ॥१॥" गुरुकुलवासं के न मुञ्चन्ति ? ये कर्मपरिणति अनुविचिन्त्य यदि वा 'धर्म' श्रुतचारित्राख्यं श्राद्धधर्म साधुधर्म वा 'अनुविचिन्त्य' पर्यालोच्य, तमेव धर्म 'प्रादुष्कुर्युः' प्रकटयेयुस्ते गुरुकुलवासं सदा आसेवन्ते, यदिवा ज्योतिर्भूतं आचार्य सततमासेवन्ते त एव आगमज्ञा धर्ममनुविचिन्त्य यथावस्थितं प्रादुष्कुर्युरिति गाथार्थः ॥ १९ ।।
१ज्ञानस्य भवति भागी स्थिरतरको दर्शने चारित्रे च । धन्या यावत्कयां गुरुकुलवासं न मुश्चन्ति ॥ १ ॥
२४
Jain Education Intel
For Privale & Personal use only
www.jainelibrary.org