________________
व्याख्या ते कुवादिनो मिथ्यामतयः सावद्येतरदोषा[दोषा] नमिज्ञाः सन्तः कर्मक्षयार्थमभ्युद्यता निर्विवेकतया सावद्य| मेव कर्म कुर्वते, न च कर्मणा-सावद्यारम्मेण 'कर्म' पापं क्षपयन्ति, अज्ञानत्वात् बालाः। यथा च कर्म क्षप्यते तथा | दर्शयति-'अकर्मणा तु' आश्रवनिरोधेन अन्तशः शैलेश्यवस्थायां 'वीरा' महासच्चाः कर्म क्षपयन्ति । सद्वैद्याश्चिकित्सया रोगानिव । कीदृशाः? 'मेधाविनः' हिताहितप्राप्तिपरिहाराभिज्ञाः, पुनः कीदृशाः ? (लोभमयात्-परिग्रहाद्व्यतीताः)। लोभातीता:-वीतरागा इत्यर्थः । तथा सन्तोषिणः, त एवम्भूता मगवन्तः पाप-मसदनुष्ठानापादितं कर्म न कुर्वते । एतावता ये लोमातीतास्ते अवश्यं पापं न कुर्वन्तीति स्थितं, इति गाथार्थः ॥ १५॥ ये लोभातीतास्ते किम्भूता भवन्तीत्याह
तेऽतीयमुप्पन्नमणागयाइं, लोगस्स जाणंति तहागयाइं ।
णेता[रो]सि अन्नेसि अणन्ननेया, बुद्धा हु ते अंतगडा भवंति ॥ १६ ॥ व्याख्या-ते वीतरागा: लोकस्य-चतुर्दशरवात्मकस्य अतीतान्य-न्यजन्माचरितानि तथा वर्तमानानि अनागतानिभवान्तरभावीनि सुखदुःखादीनि 'तथागतानि च' यथैव स्थितानि तथैव जानन्ति, न पुनर्विभङ्गज्ञानिन इव विपरीत पश्यन्ति, यथावस्थितमेव पश्यन्तीति भावः। तेषां नान्यः कोऽपि तत्वदर्शकः, ते एवंविधा अन्येषां संसारस्य पारं नेतुमलं, ते स्वयम्बुद्धाः सन्तः तत्त्ववेत्तारो निश्चयेन कर्मणामन्तकृतो ज्ञेया इति गाथार्थः ॥ १६ ॥
यावदद्यापि भवान्तं न कुर्वन्ति तावत् किं कुर्वन्तीत्याह
Jain Education in
For Private & Personal Use Only
ALwww.jainelibrary.org