SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ 'हितं ' सद्गतिप्रापक-मनर्थनिवारकं । किश्च-तथा तथा लोकं शाश्वतमाहुः, येन येन प्रकारेण द्रव्यास्तिकनयाभिप्रायण यद्वस्तु शाश्वतं[ तत्तथा] आहु-रुक्तवन्तः। यदिवा प्राणिगणः संसारान्तर्वर्ती यथा यथा शाश्वतो भवति तथा तथा आहुरिति । यथा यथा मिथ्यादर्शनाभिवृद्धिस्तथा तथा शाश्वतो लोकः, यथा च "महारंभयाए महापरिग्गहयाए" इत्यादिभिश्चतुष्प्रकारैर्जीवा नारकायुष्कं यावन्निवर्त्तयन्ति तावत्संसारवृद्धिः । अथवा यथा यथा रागद्वेषादिवृद्धिस्तथा तथा संसारोऽपि शाश्वत इत्याहुः । यथा यथा कर्मोपचयमात्रा तथा तथा संसाराभिवृद्धिः, दुष्टमनोवाकायाभिवृद्धौ च संसाराभिवृद्धिरवगन्तव्येति । यस्मिंश्च संसारे 'प्रजाः' लोकाः हे मानव ! ' प्रगाढाः प्रकर्षेण व्यवस्थिता इति गाथार्थः ॥ १२ ॥ अथ तत्पर्यटनद्वारेणाह जे रक्खसा वा जमलोइया य, जे या सुरा गंधवा य काया । आगासगामी य पुढो सिया जे, पुणो पुणो विप्परियासुर्वेति ॥ १३ ॥ व्याख्या-ये राक्षसात्मानो ये यमलौकिकात्मानः-सर्वे परमाधार्मिकाः, एतावता सर्वे भवनपतयो गृहीताः, ये च VIसुराः सौधर्मादिवैमानिकाः, च 'शब्दाज्योतिष्काः, गान्धर्वा-विद्याधरास्तथा 'कायाः' पृथिवीकायादयः षडपि, तथा [आकाशगामिनः-सम्प्राप्तलब्धयश्चतुर्विधा देवा विद्याधराः पक्षिणो वायवश्च, ये च] पृथिव्याश्रिताः सर्वेऽपि जीवनिकायाः १ महारम्भतया महापरिग्रहतया । Jain Education in For Privale & Personal use only Alwww.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy