SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ व्याख्या-ये क्रियात एव मोक्षमिच्छन्ति ते एवमाख्यान्ति-" अस्ति माता पिताऽस्ति सुचीर्णस्य कर्मणः फल मिति । किं कृत्वा त एवं कथयन्ति ? क्रियात एव सर्व सिद्ध्यतीति स्वाभिप्रायेण 'लोक' स्थावरजङ्गमात्मकं 'समेत्य' ज्ञात्वा 'किल वयं यथावस्थितवस्तुनो ज्ञातार' इत्येवमभ्युपगम्य सर्वमस्त्येवेत्येवं सावधारणं प्रतिपादयन्ति, न कथश्चिन्नास्तीति । कथमाख्यान्ति ? 'तथा तथा' तेन तेन प्रकारेण, यथा यथा क्रिया तथा तथा स्वर्गनरकादिकं फलमिति, ते च श्रमणा ब्राह्मणा वा क्रियात एव सिद्धिमिच्छन्ति । किल यत्किमपि संसारे दुःखं तथा सुखं तत्सर्वमात्मना कृतं, नान्येन कालेश्वरादिना, एतावता सर्व कृतं स्यात् , नाकृतं, ततश्चैतदक्रियावादे घटते । एतावता क्रियात एव कार्यसिद्धिः, न ज्ञानेन । अत्रोच्यते-न च ज्ञानरहितायाः क्रियायाः सिद्धिः, तदुपायपरिज्ञानाभावात् । न चोपायमन्तरेणोपेयमाप्यत इति प्रतीतम् । सर्वा हि क्रिया ज्ञानवत्येव फलवती जायते । यत:-"पंढमं नाणं तओ दया, एवं चिट्ठ सव्वसंजए । अन्नाणी किंकाही?, किंवा नाही? छेयपावगं ।। १०॥" [दश० अ. ४] इति वचनात् । इत्यतो ज्ञानस्यापि प्राधान्यम् । नापि ज्ञानादेव कार्यसिद्धिः, क्रियारहितस्य ज्ञानस्य पङ्गोरिव कार्यसिद्धेरनुपपत्तेरित्यालोच्याह-" आहंसु विज्जाचरणं पमुक्खं "ति । न ज्ञाननिरपेक्षायाः क्रियायाः सिद्धिरन्धस्येव, नापि क्रियाविकलस्य ज्ञानस्य पङ्गोरिवेत्यवगम्याहुरुक्तवन्तस्तीर्थकरगणधरादयः। कमाहुः? मोक्षं, कथं? विद्या च-ज्ञानं, चरणं च-क्रिया, ते द्वे अपि विद्यते कारणत्वेन यस्य [ असौ] 'विद्याचरणो' मोक्षः, ज्ञानक्रियासाध्य इत्यर्थः । ॥ ११ ॥ १ .प्रथमं ज्ञानं ततो दया एवं तिष्ठति सर्वसंयतः । अज्ञानी किं करिष्यति ? किं वा ज्ञास्यति ? छेकपापकम् ॥१॥ Jain Education inten For Privale & Personal use only PMw.jainelibrary.org
SR No.600139
Book TitleSuyagadanga Sutram Part_1
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1959
Total Pages372
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy